Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 768
________________ अध्ययनं ६ | नि. १५६१ | पालनीयेत्यधाहारः, तत्रैव पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमाचीचीमरमणमस्ति तथाऽपि न तद् गृह्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच् (पूर्वपदात्) इति ठञ् संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा तस्याः जोषणं सेवनं तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः । एत्थ सामायारी - आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति. न सक्कति ताधे भत्तपञ्चक्खाणकाले संधारसमणेण होतव्वंति विभासा । आह उक्तम्- 'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना' ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस अतिचारा इति तानुपदर्शयन्नाह ३१३ 'इमीए समणोवासएणं०' अस्या- अनन्तरोदितसंलेखना सेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - इहलोकाशंसाप्रयोगः, इहलोको - मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोके देवलोके, एवं जीवितशंसाप्रयोगः, जीवितं प्राणधारणं तत्राभिलाषप्रयोगः- यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपजादर्शनात् बहुपरिवारदर्शनाच्च, लोक श्लाघाश्रवणाञ्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्वाघते ततस्तस्यैवंविधश्चित्तपरिणामो जायतेयदि शीघ्रं प्रियेऽहमपुण्यकर्मेति, 'भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि । उक्तं श्रावकधर्मः, व्याख्यातुं सप्रभेदं देशोत्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तररगुणप्रत्याख्यानमच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधरणमपीत्यतस्तदभिधित्सयाऽऽह नि. (१५६२ ) पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अनेगविहं । तेन य इहयं पगयं तंपि य इणमो दसविहं तु ॥ वृ- प्रत्याख्यानं प्राग्निरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध' मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे' ति सामान्येनोत्तर रगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्र'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः ॥ अधुना दशविधमेवोपन्यस्यन्नाह - नि. (१५६३) अनागयमइक्कंतं कोडिसहिअं निअंटिअं चेव । सागारमनागारं परिमाणकडं निरवसेसं || , वृ- ‘अनागतं०' गाथा, अनागतकरणादनागतं पर्युषणादाचाचार्यादिवैयावृत्त्यकरणान्तरायसद्-भावादारत एव तत्तपः करणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808