Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 707
________________ २५२ आवश्यक मूलसूत्रम् -२-५/३७ ओहाडियमव्वत्तं च होइ पाएण चित्तंति ।। वृ- 'अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूर्छिताव्यक्तमथसुप्तानां-मूर्छितानामभिधातदिना अव्यक्तानाम्-अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत्पुनरव्यक्तं की गित्याह-'ओहाडियमव्वत्तं च होइ पाएण चित्तं तु' 'ओहाडिय' न्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं च-अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ।। स्यादेतत्-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं । . नि. (१४८३) गाढालंबनलग्गं चित्तं वृत्तं निरयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमंतं वा ।। दृ- यस्मात्-आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं-अन्तः करणं उक्तं-भणितं, निरेजन-निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेष-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं?-'मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अवयक्तं पूर्वोक्तं भ्रमन्वा-अनवस्थितं वेति गाथार्थः ॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यकततेति?, अत्रोच्यतेनि. (१४८४) उम्हासेसोवि सिही होउं लद्धिंधनो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ । वृ-'उम्हासेसोवि' उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निभूत्वा लब्धेन्धनःप्राप्तकाष्ठादिः सन् पुनर्चलति, ‘इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा, व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः । इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तु-शुद्धिः क्रियते, किंच प्रक्रान्तं ?, कायिकादि त्रिविध ध्यान, यत उक्तं-'भगियसुयं गुणतो वट्टइ तिविहेऽवि झाणंमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाहनि. (१४८५) पुवं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ।। वृ- 'पुव्वं च जं तदुत्तं' ननु त्रिविधे ध्याने सति पूर्वं यदुक्तं चित्तस्येकाग्रता भवति ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेग्गया भवति झाणं ति वचनात् चशब्दाद्यच्च तदूर्ध्वमुक्तं- भंगियसुर्य गुणंतो वट्टइ तिविहेवि झाणंमि' तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रिया करोतीति अनेकाग्रता, आचार्य इदमनाद्दत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न ध्यानमिति गाथार्थः ।। आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात, तथाहि--- नि. (१४८६)आ० मनसहिएण उ काएण कुणइ वायाइ भासई जं च । एयं च भावकरणं मनरहियं दव्यकरणं च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808