Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 719
________________ २६४ आवश्यक मूलसूत्रम् -२-५/४० "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।।१।। सर्वः खल्वस्तिर्यगू_भेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलाक्य इत्यर्थः, तथाहि-अधोलाके चमरादिभवनेषु तिर्यग्लाक द्वीपाचलज्यातिष्कविमानादिषु सन्त्यवाहच्चैत्यानि ऊर्द्धलोके सौधर्मादिषु सन्त्यवाहैचैत्यानि, तत्राशकाद्यष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तःतीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षणानि अर्हच्चैत्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भाव कर्मणि वा वर्णद्रढादिलक्षण ष्यञि कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तात्पादनादर्हच्चैत्यानि भण्यन्ते, तेषां किं ? करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह-कायः-शरीरं तस्योत्सर्गः-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हचैत्यानामिति प्रागुक्तं, तत् किमर्हचैत्यानां कायात्सर्ग करोति ?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, तताऽर्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तन्निमित्तं, तत्फलं मे कथं नाम कायात्सर्गादित्यताऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं, तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं, तथा 'सक्कारवत्तियाए त्ति सत्कार-प्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्धनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते ततस्तावव कस्मान्न क्रियेते?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्तं च-'दव्वत्थउ भावत्थउ' इत्यादि, अतः श्रावकः पूजनसत्कारावपि कुर्वन्त्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमवमभिदधति, तथा सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सन्मान-निमित्तं, तत्र स्तुत्यादिभिर्गुणोनतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाए' बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्वोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसनिमित्तं, निरुपसर्गो-मोक्षः, __ अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा (दि) विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए धिईए धारणाए अनुप्पेहाए वद्धमाणीए ठामि काउस्सग्गं'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्गं न बलाभियागादिना श्रद्धा-निजोऽभिलाषः, एवं मेधया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्यामनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हदगुणानामेव मुहुर्मुहरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यत, श्रद्व्या वर्द्धमानया एवं मेधयत्यादि, एवं तिष्ठामि कार्योत्सर्गम, आह-उक्तमेव प्राक्करोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति?,उच्यते, 'वर्तमानसामीप्ये वर्तमानवद्वा इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयाः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808