Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - ६ - [नि. १५६१ |
मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वररात्ममनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः - अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायंविद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, कालवादिनः उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्वादिनः 'पुरुष एवेदं सर्व' मित्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, पररत इत्यनेनापिप पञ्चैव लभ्यन्ते, नित्यत्वा परित्यागेन चैते दश विकल्पपाः एवमनित्यत्वेनापि दशैव, एकत्र विंशतिजीवपपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अक्किरिरयाणं च भवति चुलसीति त्ति अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः, तथा चाहुरेके“क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया ? | भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ||१|| "
"
इत्यादि, एते चात्मादिनास्तित्वपप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्दष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः, -नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वररादिभिरपि यच्छावसानैः सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिविर्कल्पा नास्तिकानामिति । 'अन्नाणिय सत्तट्ठि 'त्ति अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुस्तितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् पप्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद् गौरखररवदररण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः-असंचित्य कृतवैफल्यादिप्रतिपत्तिलक्षणाः, अमुनोपायेन सप्तषष्टिर्ज्ञातव्या, तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपपन्यस्याधः सप्त सददयः उपन्यसनीयाः सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-- सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्त्वं चेति, त्रिषष्टिमध्येक्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ?, एतन्न कश्चिदपीत्यभिप्राय: । 'वेणइयाणं च बत्तीस 'त्ति वैनयिकानां च द्वात्रिशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानचधुतलिङ्गाचारशास्त्रा विनयपप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः सुरनृपतियतिज्ञाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
२९३
Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808