Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 755
________________ आवश्यक मूलसूत्रम्-२-६/६७ जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा णं कप्पंति, न वट्टति महती दारिया दिजउ गोधने वा संडो छुपेजेति भणिउं । काम्यन्त इति कामाः-शब्दरूपगन्धा भुज्यन्त इति भोगारसस्पर्शीः, कामभोगेषु तीव्राभिलाषः, तीब्राभिलार्षो नाम तदध्यवसायित्वं, तस्माच्चैदं करोतिसमाप्ततोऽपि योषिन्मुखोपस्थकर्णकक्षानेषवतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महती वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुत, योषिदवाच्यदेशं वा मृद्नाति । एतानीतवरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुट्टस्स भवंति णो परदारविवज्जगस्स, सेसा पुन दोण्हवि भवन्ति, दोसा पुन इत्तरियपरिगहितागमणे बिदिएण सद्धि वेरं होज्ज मारेज्ज तालेज्ज वा इत्यादयः, एवं सेसेसुवि भाणियव्वा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, मू. (६८) अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पत्रत्ते, तंजहा-सच्चित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा० इमे पंच०-धनधन्नमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ।। वृ- 'अपरिमितपरिग्गहं समणोवासतो पच्चक्खाति' परिग्रहणं परिग्रहः अपरिमितःअपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाणं २ तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्रागवत्, सह चित्तेन सचित्तं-द्विपपदचतुष्पपदादि तदेव परिग्रहः अचित्त-रलवस्त्रकुष्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमअनव्वते अनियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम्-लुद्धनंदो कुसीमूलियं लद्ध विणट्ठो नंदो सावगो पूइतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्कणति छुद्धाए मरती, सड्डेण भणिता-एत्तिअपरिक्खओ नत्थि, अन्नस्स नीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो पत्थं देह, सुभक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं ?, भणति-विक्कियाणि मए, कहं ?, सा भणइ-गोहुमसेइयाए एकेकंदिन्नं अमुगस्स वाणियगस्स, सो वाणियगो तेन भणिओ-रयणा अप्पेह पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रन्नो मूलं गतो एरिसे अग्घे वट्टमाणे एतस्स एतेन एत्तियं दिन्नं, सो विनासितो, पढम पुन ताणि रतणाणि सावगस्स विक्किणियाणि तेन परिग्गहपरिमाणा-इरित्ताइंतिकाउं न गहियाणि, सावगेण णेच्छितं, सो पूइतो । इदं चातिचाररहितमनुपालनीयं, तथा चाह 'इच्छापरिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतुभेदाद् द्विभेदं, तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधंखातमुत्सृतं खातोच्छ्रितं च, तत्र खातं-भूमिगृहकादि उच्छृत-प्रासादादि, खातोच्छ्रितं-भूमिगृहस्योपरि प्रासाद्ः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यंरजतमघतिमं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808