Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६६
आवश्यक मूलसूत्रम् - २-५/५० श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं सामर्थ्यमुपलभ्य दृष्ट्रा विज्ञाय कुर्यात् प्रमादं सचेतननः ? चारित्रधर्मे प्रमादः कर्तुं न युक्तं इति हृदयम्, आह- सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवरेन्द्रगणार्चि तस्येति किमर्थमिति ?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः मू. (५१) सिद्धे भो ! पयओ नमो जिनमए नंदी सया संजमे, देवनागसुवण्णकिन्नरगणस्सब्भुअभावच्चिए । लोगो जत्थ पट्टिओ जगमिणं तेलुकमच्चासुरं, धम्मो व सासओ विजयऊ धम्मुत्तरं वड्डउ ||
वृ- 'सिद्धे भो पयओ नमो जिनमये' इत्यादि, सिद्धे प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं- यथाशख्तयोद्यतः प्रकर्षेण यतः, इत्थं परसाक्षिकं भू (क) त्वा पुनर्नमस्करोति- 'नमो जिनमते' अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क्व ? -संयमे चारित्रे, यथोक्तं- 'पढमं नाणं तओ दये' त्यादि, किंभूते संयमे ? - देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अर्च्यन्त एव देवादिभिः किंभूते जिनमते ? -लोक्यतेऽनेनेति लोक:-? ज्ञानमेव स यत्र प्रतिष्ठितः, तथ जगदिदं ज्ञेयतया, केचित्त मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह- त्रैलोख्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां वृद्धिमुपयातु शाश्वतः द्रव्यार्थादिशान्नित्य:, तथा चोक्तं- 'द्रव्याथदिशात् इत्येषा द्वादशाङ्गी न कदाचिद् नासीदित्यादि, अन्ये पठन्ति-धर्मो वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वत् वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं- "अप्पुव्यणाणगहणे "त्ति,
मू. (५२) सुअस्स भगवओ करेमि काउस्सग्गं वंदण० अन्नत्थ० ।
वृ- 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि प्रागवत्, यावद्वोसिरामि। एवं सुत्तं पढिता पणुवीसुस्सासमेव काउस्सगं करेमि, आह च- 'सुयनाणस्स चउत्थो' त्ति, तओ नमोक्कारेण पारिता विसुद्धचरणदंसणसुयाइयारा मंगलनिमित्तं चरणदंसणसुयदेसगाणं सिद्धाणं थुई कहेंति, भणियं च सिद्धाण थुई यत्ति, सा चेयं स्तुतिःसिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । teriyaगाणं नमो या सव्वसिद्धाणं ।।
मू. (५३)
वृ- सितं ध्यातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽवि स्वतीर्थेज्ज्वलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह—'पारगतेभ्यः' पारं - पर्यन्तं संसारस्य प्रयोजनव्रातस्य च गताः पारगताः तेभ्यः, तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह- 'परम्परगतेभ्यः' परम्परया
For Private & Personal Use Only
www.jainelibrary.org
"
Jain Education International
=
Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808