Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 692
________________ अध्ययनं-५- [नि. १४१८] २३७ (अध्ययनं-५ - कायोत्सर्ग) वृ-व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने वन्दनाधकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेषजेनापराधचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिपक्रमणाद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः, यथोक्तं'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते “जह करगओ निकंतइ दारुं जंतो पुणोऽवि वच्चंतो । इय किंतंति सुविहिया काउस्सग्गेण कम्माइं ॥१॥ काउस्सग्गे जह सुट्टियस्स भञ्जति अंगमंगाई। इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं ।।२।।" इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुविशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवन-मैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तनिरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाहनि. (१४१८) आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अनवट्ठया य पारंचिए चेव ॥ वृ- 'आलोयणं ति आलोचना प्रयोजनतो हस्तशताद् बहिर्गमनागमनादौ गुरोर्विकटना, 'पडिक्कमणे'त्ति प्रतीपं क्रमणं प्रतिक्रमणं, सहसावऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीसं'त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे'त्ति विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा 'विउस्सग्गे'त्ति तथ व्युत्सर्गः कुस्वप्नादौ कायोत्सर्ग इति भावना, ‘तवे'त्ति कर्म तापयतीति तपः-पृथिव्यादिसंघट्टनादौ निर्विग (क) तिकादि, ‘छेदे'त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपातादौ पुनव्रतारोपणमित्यर्थः, 'अनवट्ठया यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंचिए चेव'त्ति पुरुषविशेषस्य स्वलिङ्गराजपलयाद्यासेवनायां पारञ्चिकं भवति, पारं-प्रायश्चित्तान्तमञ्चति-गच्छतीति पारञ्चिकं, न तत ऊर्दू प्रायश्चित्तमस्तीति गाथार्थः ।। एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, नि. (१४१९) दुविहो कायंमि वणो तदुब्भवागंतुओ अ नायव्यो । आगंतुयस्स कारइ सल्लुद्धरणं न इयरस्स ।। वृ-द्विविधो-द्विप्रकारः ‘कायंमि वणो'त्ति चीयत इति कायः--शरीरमित्यर्थः तस्मिन् व्रणःक्षतलक्षणः, द्वैविध्यं दर्शयति-तस्मादुद्भवोऽस्येति तदुद्भवो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः, कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य-तदुद्भवस्येति गाथार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808