Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1401
________________ ३५० बृहत्कल्प-छेदसूत्रम् -३-६/१९६ [भा.६०८७] वच्चह एगंदव्वं, घेच्छं नेगगह पुच्छितो भणती । गहणं तु लक्खणं पोग्गलाण नऽन्नेसि तेनेगं । वृ-कोऽपिसाधुर्भिक्षार्थं गच्छन् कमपिसाधुंभणति-व्रजावो भिक्षायाम्; सप्राह-व्रजत यूयम् अहमेकमेवद्रव्यं ग्रहीष्यामि; एवमुक्त्वा भिक्षांपर्यटन्अनेकानाम्-ओदन-द्वितीयाङ्गादीनांबहूनां द्रव्याणां ग्रहण कुर्वन् साधुभि पृटो भणति-“गहणं तु" इत्यादि, गतिलक्षणो धर्मास्तिकायः, स्थितिलक्षणोऽधर्मास्तिकायः, अवगाहलक्षण आकाशास्तिकायः, उपयोगलक्षणोजीवास्तिकायः, ग्रहणलक्षणः, पुद्गलास्तिकायः, एषां च पञ्चानां द्रव्याणां मध्यात् पुद्गलानामेव ग्रहणरूपं लक्षणम् नान्येषां धर्मास्तिकायादीनाम्, तेनाहमेकमेव द्रव्यं गृह्णामि न बहूनीति ।। व्याख्यातं द्वितीयद्वारगाथायाः पूर्वार्द्धम् । अथ “पडियाखित्तागमणं, पडियास्वित्ता यभुंजणय'त्तिपश्चार्द्ध व्याख्यायते-'प्रत्याख्याय' 'नाहं गच्छामि' इति प्रतिषिध्य गमनं करोति, 'प्रत्याख्याय च' 'नाहं भुजे' इति भणित्वा भुङ्क्ते; अपरेण च साधुना पृष्टो ब्रवीति-गम्यमानं गम्यते नागम्यमानम्, भुज्यमानमेव भुज्यते नाभुज्यमानम् । अनेन च पश्चाद्धे गमनद्वार-प्रत्याख्यानद्वारे व्याख्याते इतिप्रतिपत्तव्यम् । इहचसर्वत्रापिप्रथमवारंभणतो मासलघु। अथाभिनिवेशेन तदेव निकाचयति तदा पूर्वोक्तनीत्या पाराञ्चिकं यावद् द्रष्टव्यम् ॥ तदेवं येषु स्थानेष्वलीकं सम्भवति याद्दशी च तत्र शोधिस्तदभिहितम् । सम्प्रति 'येऽपाया सापवादाः' इति द्वारम्-तत्राऽनन्तरोक्तान्यलीकानि भणतो द्वितीयसाधुना सहासङ्खडाधुत्पत्तेः संयमा-ऽऽत्मविराधनारूपा सप्रपञ्चं सुधिया वक्तव्याः । अपवादपदं तु पुरस्ताद् भणिष्यते । गतमलीकवचनम् । अथ हीलितादीन्यभिधित्सुः प्रथमतः प्रायश्चित्तमतिदिशति[भा.६०८८] एमेव य हीलाए, खिंसा-फरुसवयणं च वदमाणो। गारथि विओसविते, इमंच जंतेसि नाणतं। एवमेवहीलावचनंखिंसावचनंपरुषवचनमगारस्थवचनं व्यवशमितोदीरणवचनंचवदतः प्रायश्चित्तं मन्तव्यम् । यच्च तेषां नानात्वं तद् इदं भवति॥ [भा.६०८९] आदिल्लेसुंचउसु वि, सोही गुरुगाति भिन्नमासंता। पणुवीसतो विभाओ, विसेसितो बिदिय पडिलोमं॥ वृ'आदिमेषु चतुर्ध्वपि' हीलित-खिसित-परुष-गृहस्थवचनेषु शोधिश्चतुर्गुरुकादिका भिन्नमासान्ता आचार्यादीनां प्राग्वद् मन्तव्या । तद्यथा-आचार्य आचार्य हीलयति चतुर्गुरु १ उपाध्यायं भिन्नमासः ५। एतान्याचार्यस्य तपः-कालाभ्यां गुरुकाणि भवन्ति । एते आचार्यस्य पञ्चसंयोगा उक्ताः, उपाध्यायादीनामपि चतुर्णामेवमेव पञ्चपञ्चसंयोगा भवन्ति, सर्वसङ्ख्ययैते पञ्चविंशतिर्भवन्ति ।अतएवाह 'पञ्चविंशतिकः' पञ्चविंशभङ्गपरिमाणोविभागोऽत्रभवति। स च तपः-कालाभ्यां विशेषितः कर्तव्यः । द्वितीयादेशेन चैतदेव प्रायश्चित्तं प्रतिलोमं विज्ञेयम्, भिन्नमासाद्यं चतुर्गुरुकान्तमित्यर्थः । एवं खिंसित-परुष-गृहस्थवचनेष्वपि शोधिर्मन्तव्या ।। अथ हीलितवचनं व्याख्याति[भा.६०९०] गणि वायए बहुस्सुए, मेहावाऽऽयरिय धम्मकहि वादी। अप्पकसाए थूले, तनुए दीहे य मड़हे य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500