Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1431
________________ ३८० बृहत्कल्प - छेदसूत्रम् -३-६/२०५ अचेतना तेन कारणेन "से" तस्याः 'चयः' कर्मोपचयो नास्ति, 'बोन्दि' तनुः पुनः 'जीवपरिगृहीता' जीवेनाधिष्ठिता, जीवपरिगृहीतत्वाच्वश्यं तद्विरुद्धचेष्टातः कर्मोपचयसम्भः, ततो या सासेराध्ष्टान्तेन समता आपादिता सा 'असमञ्जसम् अयुज्यमाना, अचेतनसचेतनयोर्धान्त-दान्तिकयोर्वैषम्यात् । अत्राऽऽचार्य प्राह [भा. ६२३१] चेयणमचेयणं वा, परतंतत्तेण ननु हु तुल्लाई । न तया विसेसितं एत्थ किंचि भणती सुण विसेसं ॥ वृ- इह वस्तु चेतनं वाऽस्तु अचेतनं वा, यदि परतन्त्रं तदा ननु 'हुः' निश्चितं 'परतन्त्रत्वेन' परायत्ततया यतो द्वे अपि तुल्ये ततो न किञ्चिद् वैषम्यम् । पर आह-न त्वयाऽत्र परकर्मोपचयचिन्तायां 'किश्चिदपि ' मनागपि विसेषिते येन 'जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवति, एकत्र न' इति प्रतिपद्यामहे । अत्राचार्य 'भणति' ब्रूते शृणु भण्यमानं विशेषम् ।। तमेवाह[भा. ६२३२ ] ननु सो चेव विसेसो, जं एक्कमचेतणं सचित्तेगं । जह चेयणे विसेसो, तह भणसु इमं निसामेह || वृ- ननु 'स एव' यन्त्रनर्तकी-स्वाभाविकनर्तकीध्ष्टान्तसूचितो विशेष: यद् एकं शरीरं' यन्त्रनर्तकीसत्कं परायत्ततया चेष्टमानमप्यचेतनम्, 'एकं तु' स्वाभाविकनर्तकी शरीरं स्वायत्ततया प्रवृत्तेः 'सचित्तं' सचेतनमिति । पर आह-यथा एष चेतने विशेषो निसन्दिग्धप्रतिपत्तिविषयो भवत तथा 'भगत' प्रतिपादयत । आचार्य प्राह ततः 'इदं' वक्ष्यमाणं 'निशमय' आकर्णय ।। [मा. ६२३३) जो पेल्लिओ परेणं, हेऊ वसणस्स होइ कायाणं । तत्थ न दोसं इच्छसि लोगेण समं तहा तं च ॥ वृ- यः परेण प्रेरितः सन् 'कायनां' पृथिव्यादीनां 'व्यसनस्य' सङ्घङ्घन-परितापनादिरूपस्य 'हेतुः' कारणं भवति 'तत्र' तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ यथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः । कथं पुनर्दोषं नेच्छामि ? इत्यत आह-'लोकेन समं' लोकेन सह, लोके तथादर्शनत इत्यर्थः । तथाहि यो यत्रानात्मवशतया प्रवर्तते तं तत्र लोको निर्दोषमभिमन्यते । अथ एव परप्रेरिततया कायव्यसनहेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा 'तामपि च ' क्षिप्तचित्तां निर्दोषां पश्य, तस्या अपि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः ॥ एतदेव सविशेषं भावयति[मा. ६२३४] पसंतो वि य काए, अपच्चलो अप्पगं विधारेउं । जह पेल्लितो अदोसो, एमेव इमं पि पासामो ॥ वृ-यथा परेण प्रेरित आत्मानं 'विधारयितुं' संस्थापयितुम् 'अप्रत्यलः' असमसर्थः सन्पश्यन्नपि 'कायान्' पृथिवीकायिकादीन् विराधयन् अन्निकापुत्राचार्य इव 'अदोषः' निर्दोषः 'एवमेव' अनेनैव प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन 'इमामपि' क्षिप्तचित्तामदोषां पश्यामः ॥ इह पूर्वं प्रगुणीभूतायास्तस्याः प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्ता अतस्तानेव गुरुकादीन् प्ररूपयति [ भा. ६२३५] गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो। लहुओ लहुयतरागो, अहालहूगो य ववहारो ॥ लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो । For Private & Personal Use Only [भा. ६२३६] Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500