________________
३८०
बृहत्कल्प - छेदसूत्रम् -३-६/२०५ अचेतना तेन कारणेन "से" तस्याः 'चयः' कर्मोपचयो नास्ति, 'बोन्दि' तनुः पुनः 'जीवपरिगृहीता' जीवेनाधिष्ठिता, जीवपरिगृहीतत्वाच्वश्यं तद्विरुद्धचेष्टातः कर्मोपचयसम्भः, ततो या सासेराध्ष्टान्तेन समता आपादिता सा 'असमञ्जसम् अयुज्यमाना, अचेतनसचेतनयोर्धान्त-दान्तिकयोर्वैषम्यात् । अत्राऽऽचार्य प्राह
[भा. ६२३१]
चेयणमचेयणं वा, परतंतत्तेण ननु हु तुल्लाई । न तया विसेसितं एत्थ किंचि भणती सुण विसेसं ॥
वृ- इह वस्तु चेतनं वाऽस्तु अचेतनं वा, यदि परतन्त्रं तदा ननु 'हुः' निश्चितं 'परतन्त्रत्वेन' परायत्ततया यतो द्वे अपि तुल्ये ततो न किञ्चिद् वैषम्यम् । पर आह-न त्वयाऽत्र परकर्मोपचयचिन्तायां 'किश्चिदपि ' मनागपि विसेषिते येन 'जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवति, एकत्र न' इति प्रतिपद्यामहे । अत्राचार्य 'भणति' ब्रूते शृणु भण्यमानं विशेषम् ।। तमेवाह[भा. ६२३२ ] ननु सो चेव विसेसो, जं एक्कमचेतणं सचित्तेगं । जह चेयणे विसेसो, तह भणसु इमं निसामेह || वृ- ननु 'स एव' यन्त्रनर्तकी-स्वाभाविकनर्तकीध्ष्टान्तसूचितो विशेष: यद् एकं शरीरं' यन्त्रनर्तकीसत्कं परायत्ततया चेष्टमानमप्यचेतनम्, 'एकं तु' स्वाभाविकनर्तकी शरीरं स्वायत्ततया प्रवृत्तेः 'सचित्तं' सचेतनमिति । पर आह-यथा एष चेतने विशेषो निसन्दिग्धप्रतिपत्तिविषयो भवत तथा 'भगत' प्रतिपादयत । आचार्य प्राह ततः 'इदं' वक्ष्यमाणं 'निशमय' आकर्णय ।। [मा. ६२३३) जो पेल्लिओ परेणं, हेऊ वसणस्स होइ कायाणं । तत्थ न दोसं इच्छसि लोगेण समं तहा तं च ॥
वृ- यः परेण प्रेरितः सन् 'कायनां' पृथिव्यादीनां 'व्यसनस्य' सङ्घङ्घन-परितापनादिरूपस्य 'हेतुः' कारणं भवति 'तत्र' तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ यथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः । कथं पुनर्दोषं नेच्छामि ? इत्यत आह-'लोकेन समं' लोकेन सह, लोके तथादर्शनत इत्यर्थः । तथाहि यो यत्रानात्मवशतया प्रवर्तते तं तत्र लोको निर्दोषमभिमन्यते । अथ एव परप्रेरिततया कायव्यसनहेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा 'तामपि च ' क्षिप्तचित्तां निर्दोषां पश्य, तस्या अपि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः ॥ एतदेव सविशेषं भावयति[मा. ६२३४]
पसंतो वि य काए, अपच्चलो अप्पगं विधारेउं ।
जह पेल्लितो अदोसो, एमेव इमं पि पासामो ॥
वृ-यथा परेण प्रेरित आत्मानं 'विधारयितुं' संस्थापयितुम् 'अप्रत्यलः' असमसर्थः सन्पश्यन्नपि 'कायान्' पृथिवीकायिकादीन् विराधयन् अन्निकापुत्राचार्य इव 'अदोषः' निर्दोषः 'एवमेव' अनेनैव प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन 'इमामपि' क्षिप्तचित्तामदोषां पश्यामः ॥
इह पूर्वं प्रगुणीभूतायास्तस्याः प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्ता अतस्तानेव गुरुकादीन् प्ररूपयति
[ भा. ६२३५]
गुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो। लहुओ लहुयतरागो, अहालहूगो य ववहारो ॥ लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो ।
For Private & Personal Use Only
[भा. ६२३६]
Jain Education International
www.jainelibrary.org