________________
उद्देश : ६, मूलं- २०५, [भा. ६२३६ ]
[भा. ६२३८]
एतेसिं पच्छित्तं वोच्छामि अहानुपुवीए ॥ [भा. ६२३७] गुरुतो य होइ मासो, गुरुगतरागो य होइ चउमासो । अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती ॥ तीसा य पन्नवीसा, वीसा पत्ररसेव य । दसपंच य दिवसाई, लहुसगपक्खम्मि पडिवत्ती ॥ [भा. ६२३९ ] गुरुगं च अट्ठमं खलु, गुरुगतरागं च होइ दसमं तु । आहागुरुग दुवालस, गुरुगे पक्खम्मि पडिवत्ती ॥ छटुं च चउत्थं वा, आयंबिल एगठाण- पुरिमड्डा ! निव्वियगं दायव्वं, अहलहुसगगम्मि सुद्धो वा ॥
[मा. ६२४० ]
वृ- आसां षण्णामपि गाथानां व्याख्या पूर्ववत् । नवरम्-इहागीतार्थप्रत्ययार्थं यथालघुस्वको व्यवहारः प्रस्थापयितव्यः ॥
मू. (२०६) दित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ वृ- अस्य व्याख्या प्राग्वत् । नवरम्-दीप्तचित्ता-लाभादिमदेन परवशीभूतहृदया ॥ अथ भाष्यकारो विस्तरमभिधित्सुराह
[ भा. ६२४१]
३८१
एसेव गमो नियमा, दित्तादीनं पि होइ नायव्वो ।
जो होइ दित्तचित्तो, सो पलवति निच्छियव्वाइं ।
वृ- 'एष एव ' अनन्तरोक्तक्षिप्तचित्तानिर्ग्रन्थीसूत्रगत एव 'गमः' प्रकारो लौकिकलोकोत्तरिकभेदादिरूपः 'दीप्तादीनामपि' दीप्तचित्ताप्रभृतीनामपि निर्ग्रन्धीनां नियमाद् वेदितव्यः । यत् पुनर्नानात्वं तद् अभिधातव्यम् । तदेवाधिकृतसूत्रेऽभिधित्सुराह - "जो होइ" इत्यादि, यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बह्वनीप्सितप्रलपनं तस्य लक्षणम्, क्षिप्तचित्तस्त्वपहृतचित्ततया मौनेनाप्यवतिष्ठत इति परस्परं सूत्रयोर्विशेष इति भावः ॥
अथ कथमेष दीप्तचित्तो भवति ? इति तत्कारणप्रतिपादनार्थमाह[ भा. ६२४२] इति स असम्माणा, खित्ता सम्माणतो भवे दित्ता ।
अग्गी व इंधनेनं, दिप्पति चित्तं इमेहिं तु ॥
सृ- 'इति' अनन्तरसूत्रोक्ता एषा' क्षिप्तचित्ता 'असम्मानतः' अपमानतो भवति । 'दीप्ता' दीप्तचित्ता पुनः 'सम्मानतः' विशिष्टसम्मानावाप्तितो भवति । तच्च चित्तं दीप्यतेऽग्निरिवेन्धनैः 'एभिः ' वक्ष्यमाणैर्लाभमदादिभिः । तानेवाह
[भा. ६२४३]
लाभमएण व मत्तो, अहवा जेऊण दुज्जए सत्तू । दित्तम्मि सायवाहणो, तमहं वोच्छं समासेण ॥
वृ-लाभमदेन वा मत्तः सन् दीप्तचित्तो भवति, अथवा दुर्जयान् शत्रून् जित्वा, एतस्मिन्नभयस्मिन्नपि 'दीप्ते ' दीप्तचित्ते लौकिको ध्ष्टान्तः सातवाहनो राजा । 'तमहं' सातवाहनध्यन्तं समासेन वक्ष्ये ।
यथाप्रतिज्ञातमेव करोति
[भा. ६२४४] महुराऽऽणत्ती दंडे, सहसा निग्गम अपुच्छिउं कयरं । तरस य तिक्खा आणा, दुहा गता दो वि पाडेउं ॥
[भा. ६२४५] सुतजम्म- महुरपाडण-निहिलंभनिवेदणा जुगव दित्तो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org