________________
उद्देशक : ६, मूलं-२०५, [भा. ६२२५ ]
३७९
'अवस्थितं' न हीयते न च वर्धते, एते चत्वारो भङ्गाश्चारित्रस्य । साम्प्रतममीषामेव चतुर्णां भङ्गानां यथासङ्कयेन विषयान् प्रदर्शयति- "खइयं" इत्यादि । क्षपक श्रेणिप्रतिपन्नस्य क्षायिकं चरणं वर्धते । उपशमश्रेणीतः प्रतिपतने औपसमिकं चरणं हानिमुपगच्छति । क्षायोपशमिकं तत्तद्राग-द्वेषोत्कर्षाऽपकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं क्षिप्तं च' पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तचारित्रं चावस्थितम्, यथाख्यातचारित्रे सर्वथा राग-द्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः स्वतो राग-द्वेषाभावात् । तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितं अतो नासौ प्रायश्चित्तभागिति ।। पर आह- ननु सा क्षिप्तचित्ताऽऽ श्रवद्वारेषु चिरकालं प्रवर्तिता बहुविधं चासमञ्जसतया प्रलपितं लोक-लोकोत्तर विरुद्धं च समाचरितं ततः कथमेषा न प्रायश्चित्तभाक् ? अत्र सूरिराह
[भा. ६२२६] काणं आसवदारेसु वट्टियं पलवितं बहुविधं च । लोगविरुद्धा य पदा, लोउत्तरिया य आइन्ना ॥
वृ- 'कामम्' इत्यनुमतौ अनुमतमेतद्, यथा-तयाऽऽ श्रवद्वारेषु चिरकालं वर्तितं बहुविधं च प्रलपितं लोकविरुद्धानि लोकोत्तरविरुद्धानि च पदानि 'आचीर्णानि' प्रतिसेवितानि ।। [भा. ६२२७] न य बंधहेउविगलत्तणेण कम्मस्स उवचयो होति । लोगो वि एत्थ सक्खी, जह एस परव्वसा कासी ॥
वृ- तथापि 'न च' नैव तस्याः क्षिप्तचित्तायाः 'बन्धहेतुविकलत्वेन' बन्धहेतवः- रागद्वेषादयस्तद्विकलत्वेन कर्मोपचयो भवति, कर्मोपचयस्य राग-द्वेषसमाचरिताद्यधीनत्वात्, तस्याश्च रागद्वेषविकल्वात् । तस्याश्च राग-द्वेषविकलत्वंन वचनमात्रसिद्धं किन्तु लोकोऽपि 'अत्र' अस्मिन् विषये साक्षी, यथा- एषा सर्वं परवशाऽकार्षीदिति । ततो राग-द्वेषाभावान्न कर्मोपचयः, तस्य तदनुगतत्वात् ॥ तथा चाह
[भा. ६२२८]
राग-दोसानुगया, जीवा कम्मस्स बंधगा होंति । रागादिविसेसेण य, बंधविसेसो वि अविगीओ ॥
वृ-राग-द्वेषाभ्यामनुगताः सम्बधा राग-द्वेषानुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततः 'राग-द्वेषविशेषेण' राग-द्वेषतारतम्येन 'बन्धविशेषः ' कर्मबन्धतर-तमभावः 'अविगीतः ' अविप्रतिपत्रः । ततः क्षिप्तचित्ताया राग-द्वेषाभावतः कर्मोपचयाभावः ॥
अमुमेवार्थं दृष्टान्तेन द्रढयति
[ भा. ६२२९] कुणमाणा वि य चेट्ठा, परतंता नट्टिया बहुविहातो । किरियाफलेन जुञ्जति, न जहा एमेव एतं पि ॥
वृ- यथा 'नर्तकी' यन्त्रनर्तकी काष्ठमयी 'परतन्त्रा' परायता परप्रयोगत इत्यर्थः, 'बहुधा अपि' बहुप्रकारा अपि, तुशब्दोऽपिशब्दार्थ, चेशः कुर्वाणा 'क्रियाफलेन' कर्मणा न युज्यते; 'एवमेव ' अनेनैव प्रकारेण एनामपि क्षिप्तचित्तामनेका अपि विरुद्धाः क्रियाः कुर्वाणामकर्मकोपचयां पश्यत ॥ अथात्र परस्य मतमाशङ्कमान आह
[भा. ६२३०] जइ इच्छसि सासेरा, अचेतणा तेन से चओ नत्थि ।
जीवपरिग्गहिया पुन, बोंदी असमंजसं समता ।।
वृ- यदि त्वमेतद् 'इच्छसि' अनुमन्यसे, यथा- "सासेरा" इति देशीपदत्वाद् यन्त्रमयी नर्तकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org