Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1463
________________ ४१२ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ चेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोषाः । राजभवनं च प्रविशतः शुद्धशुद्धेनाऽपि चत्वारो मासा गुरुकाः प्रायश्चित्तम् ॥ एनामेव गाथां व्याख्यानयति[भा.६३९०] अन्नत्य एरिसं दुल्लभं तिगेण्हेजऽनेसणिज्जं पि। अन्नेणावि अवहिते, संकिञ्जति एस तेनोति॥ वृ. अन्तःपुरिकाभिरुत्कृष्टं द्रव्यं दीयमानं दृष्टवा 'नास्त्यन्यत्रेशम्, दुर्लभं वा' इति लोभवशतोऽनेषणीयमपि गृह्णीयात् । राज्ञश्च विप्रकीर्णे सुवर्णादौ द्रव्येऽन्येनाप्यपहते स एव साधुः शक्यते एष स्तेन इति ॥ [भा.६३९१] संका चारिग चोरे, मूलं निस्संकियम्मिअणवट्ठो । परदारि अभिमरे वा, नवमं निस्संकिए दसमं॥ वृ-चारिकोऽयं चौरो वाऽयं भविष्यति इति शङ्कायां मूलम् । निशङ्कितेऽनवस्थाप्यम् । पारदारिकशङ्कायामभिमरशङ्कायां च 'नवमम्' अनवस्थाप्यम् । निशङ्किते 'दशमं पाराञ्चिकम् । [भा.६३९२] अलभंता पवियारं, इस्थि-नपुंसा बला विगेण्हेज्जा । आयरिय कुल गणे वा, संघे व करेज पत्यारं ।। घृ-तत्र 'प्रविचारं' बहिर्निर्गममलभमानाः स्त्री-नपुंसका बलादपि साधुंगृह्णीयुः । तान् यदि प्रतिसेवते तदा चारित्रविराधना । अथ न प्रतिसेवते तदा ते उड्डाहं कुर्यु । ततः प्रान्तापनादयो दोषाः । अथवा राजा रुष्ट आचार्यस्य कुलस्य गणस्य वा सङ्घस्य वा 'प्रस्तारं' विनाशं कुर्यात् ॥ [भा.६३९३] अन्ने वि होति दोसा, आइन्ने गुम्म रतणमादीया। तनिस्साए पवेसो, तिरिक्ख मनुया भवे दुट्ठा ।। वृ-अन्येऽपि तत्रप्रविष्टस्य दोषा भवन्ति। तद्यथा-रलादिभिराकीर्णे "गुम्म"त्ति गौल्मिकाः' स्थानपालास्ते 'अतिभूमिं प्रविष्टः' इति कृत्वा तं साधुंगृह्णन्तिप्रान्तापयन्तिवा, एवमादयो दोषाः। अथवा 'तन्निश्रया' तस्य-साधोर्निश्रयारलादिमोषणा)स्तेनकाः प्रवेशंकुर्युः। तिर्यञ्चः' वानरादयः 'मनुजाश्च' म्लेच्छादयो दुष्टास्तत्र राजभवने भवेयुस्ते साधोरुपद्रवं कुर्वीरन् । एनामेव नियुक्तिगाथां व्याख्याति[भा.६३९४] आइन्ने रतणादी, गेण्हेज सयं परो व तन्निस्सा। गोम्मिय गहणाऽऽहणणं, रनो व निवेदिए जंतु॥ वृ-रत्नादिभिराकीर्णेसप्रविष्टः स्वयमेव तद्नादिकंगृह्णीयात, परोवातन्निश्रया गृह्णीयात्। गौल्मिकाश्च ग्रहणमाहननं वा कुर्युः । राज्ञो वाते तं साधुनिवेदयन्ति उपढौकयन्ति ततो निवेदिते सति यत्' प्रान्तापनादिकमसौ करिष्यति तन्निष्पन्नं प्रायश्चित्तम् ।। [भा.६३९५] चारिय चोराऽभिमरा, कामी व विसंति तत्थ तत्रीसा । वानर-तरच्छ-वग्धा, मिच्छादिनराव घातेजा। वृ-चारिकाचौरा अभिमराः कामिनो वा तत्र तस्य-साधोर्निश्रया प्रविशेयुः । तथा वानरतरक्षुव्याघ्रा म्लेच्छादयो वा नरास्तत्र साधुं धातयेयुः ॥ अथ कीशे कार्ये कल्पते ? कया वा यतनया ? इति द्वारद्वयमाह[भा.६३९६] दुविहे गेलनम्मी, निमंतणे दव्वदुल्लभे असिवे। ओमोयरिय पदोसे, भए य गहणं अनुनायं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500