________________
४१२
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ चेच्छतोऽनिच्छतश्च संयमविराधनादयो बहवो दोषाः । राजभवनं च प्रविशतः शुद्धशुद्धेनाऽपि चत्वारो मासा गुरुकाः प्रायश्चित्तम् ॥ एनामेव गाथां व्याख्यानयति[भा.६३९०] अन्नत्य एरिसं दुल्लभं तिगेण्हेजऽनेसणिज्जं पि।
अन्नेणावि अवहिते, संकिञ्जति एस तेनोति॥ वृ. अन्तःपुरिकाभिरुत्कृष्टं द्रव्यं दीयमानं दृष्टवा 'नास्त्यन्यत्रेशम्, दुर्लभं वा' इति लोभवशतोऽनेषणीयमपि गृह्णीयात् । राज्ञश्च विप्रकीर्णे सुवर्णादौ द्रव्येऽन्येनाप्यपहते स एव साधुः शक्यते एष स्तेन इति ॥ [भा.६३९१] संका चारिग चोरे, मूलं निस्संकियम्मिअणवट्ठो ।
परदारि अभिमरे वा, नवमं निस्संकिए दसमं॥ वृ-चारिकोऽयं चौरो वाऽयं भविष्यति इति शङ्कायां मूलम् । निशङ्कितेऽनवस्थाप्यम् । पारदारिकशङ्कायामभिमरशङ्कायां च 'नवमम्' अनवस्थाप्यम् । निशङ्किते 'दशमं पाराञ्चिकम् । [भा.६३९२] अलभंता पवियारं, इस्थि-नपुंसा बला विगेण्हेज्जा ।
आयरिय कुल गणे वा, संघे व करेज पत्यारं ।। घृ-तत्र 'प्रविचारं' बहिर्निर्गममलभमानाः स्त्री-नपुंसका बलादपि साधुंगृह्णीयुः । तान् यदि प्रतिसेवते तदा चारित्रविराधना । अथ न प्रतिसेवते तदा ते उड्डाहं कुर्यु । ततः प्रान्तापनादयो दोषाः । अथवा राजा रुष्ट आचार्यस्य कुलस्य गणस्य वा सङ्घस्य वा 'प्रस्तारं' विनाशं कुर्यात् ॥ [भा.६३९३] अन्ने वि होति दोसा, आइन्ने गुम्म रतणमादीया।
तनिस्साए पवेसो, तिरिक्ख मनुया भवे दुट्ठा ।। वृ-अन्येऽपि तत्रप्रविष्टस्य दोषा भवन्ति। तद्यथा-रलादिभिराकीर्णे "गुम्म"त्ति गौल्मिकाः' स्थानपालास्ते 'अतिभूमिं प्रविष्टः' इति कृत्वा तं साधुंगृह्णन्तिप्रान्तापयन्तिवा, एवमादयो दोषाः। अथवा 'तन्निश्रया' तस्य-साधोर्निश्रयारलादिमोषणा)स्तेनकाः प्रवेशंकुर्युः। तिर्यञ्चः' वानरादयः 'मनुजाश्च' म्लेच्छादयो दुष्टास्तत्र राजभवने भवेयुस्ते साधोरुपद्रवं कुर्वीरन् ।
एनामेव नियुक्तिगाथां व्याख्याति[भा.६३९४] आइन्ने रतणादी, गेण्हेज सयं परो व तन्निस्सा।
गोम्मिय गहणाऽऽहणणं, रनो व निवेदिए जंतु॥ वृ-रत्नादिभिराकीर्णेसप्रविष्टः स्वयमेव तद्नादिकंगृह्णीयात, परोवातन्निश्रया गृह्णीयात्। गौल्मिकाश्च ग्रहणमाहननं वा कुर्युः । राज्ञो वाते तं साधुनिवेदयन्ति उपढौकयन्ति ततो निवेदिते सति यत्' प्रान्तापनादिकमसौ करिष्यति तन्निष्पन्नं प्रायश्चित्तम् ।। [भा.६३९५] चारिय चोराऽभिमरा, कामी व विसंति तत्थ तत्रीसा ।
वानर-तरच्छ-वग्धा, मिच्छादिनराव घातेजा। वृ-चारिकाचौरा अभिमराः कामिनो वा तत्र तस्य-साधोर्निश्रया प्रविशेयुः । तथा वानरतरक्षुव्याघ्रा म्लेच्छादयो वा नरास्तत्र साधुं धातयेयुः ॥ अथ कीशे कार्ये कल्पते ? कया वा यतनया ? इति द्वारद्वयमाह[भा.६३९६] दुविहे गेलनम्मी, निमंतणे दव्वदुल्लभे असिवे।
ओमोयरिय पदोसे, भए य गहणं अनुनायं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org