SearchBrowseAboutContactDonate
Page Preview
Page 1462
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं- २१५, [भा. ६३८३ ] ४११ सेसेसु होतऽ पिंडो, जहि दोसा ते विवज्रंति ।। वृ-प्रथमे भङ्गे राजपिण्डः 'वर्ज्य' परित्यक्तव्यः, ये 'तत्र' राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथापि वर्जनीयः । 'शेषेषु' त्रिषु भङ्गेषु 'अपिण्डः' राजपिण्डो न भवति तथापि येषु दोषा भवन्ति 'तान्' द्वितीयादीनपि भङ्गान् वर्जयन्ति । इयमतर भावना यः सेनापति-मन्त्रिपुरोहित-श्रेष्ठि- सार्थवाहसहितो राज्यं भुङ्गे तस्य पिण्डो वर्जनीयः, अन्यत्र तु भजनेति ॥ गतं 'की शो राजा ?' इति द्वारम् । अथ 'के तस्य भेदाः ? ' इति द्वारं चिन्तयन्नाह - [भा. ६३८४ ] असणाईआ चउरो, वत्थे पादे य कंबले चैव । पाउंछणए य तहा, अट्ठविधो रायपिंडो उ ।। वृ- 'अशनादयः' अशन-पान खादिम स्वादिमरूपा ये चत्वारो भेदाः ४ यच्च वस्त्र ५ पात्रं ६ कम्बल ७ पादप्रोञ्छनकं रजोहरणं ८ एषोऽष्टविधो राजपिण्डः ॥ अथ केतस्य दोषाः ? ' इति द्वारमाहअट्ठवह रायपिंडे, अन्नतरागं तु जो पडिग्गाहे । सो आणा अवत्थं, मिच्छत्त विराधनं पावे ।। [भा. ६३८५] वृ- अष्टविधे राजपिण्डे 'अन्यतरत्' अशन्नादिकं यः प्रतिगृह्णाति स साधुराज्ञाभङ्गमनवस्थां मिथ्यात्वं विराधनां च प्राप्नुयात् ।। एते चापरे दोषाः [भा. ६३८६ ] ईसर - तलवर - माइंएहि सिट्ठीहि सत्थवाहेहिं । नितेहि अर्तितेहि य, वाघातो होति भिक्खुस्स ।। वृ- ईश्वर-तलवर-माइम्बिकैः श्रेष्ठिभिः सार्थवाहैश्च निर्गच्छद्भिः 'अतियद्भिश्च' प्रविशद्भिर्भिक्षोर्भिक्षार्थं प्रविष्टस्य व्याघातो भवति ॥ एतदेव व्याचष्टे [भा. ६३८७ ] ईसर भोइयमाई, तलवरपट्टेण तलवरी होति । बद्धो सेट्ठी, पच्चंत हिवो उ माडंबी ॥ वृ- ईश्वरः ‘भोगिकादिः’ ग्रामस्वामिप्रभृतिक उच्यते । यस्तु परितुष्टनृपतिप्रदत्तेन सौवर्णेन तलवरपट्टेनाङ्कितशिराः स तलवरो भवति । श्रीदेवताध्यासितः पट्टो वेष्टनकमुच्यते, तद् यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः श्रेष्ठी । यस्तु 'प्रत्यन्ताधिपः ' छिन्नमडम्बनायकः स माडम्बिकः । सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः ॥ [भा. ६३८८] जा निंति इंति ता अच्छओ अ सुत्तादि- भिक्खहानी य । इरिया अमंगलं ति य, पेल्लाऽऽहनना इयरहा वा ॥ - एते ईश्वरादयो यावद् निर्गच्छन्ति प्रविशन्ति च तावद् असौ साधुः प्रतीक्षमाण आस्ते, तत एवमासीनस्य सूत्रार्थयोर्भैक्षस्य च परिहाणिर्भवति । अश्व-हस्त्यादिसम्मर्देन चेर्यां शोधयितुं न शक्नोति । अथ शोधयति ततस्तैरभिघातो भवति । कोऽपि निर्गच्छन् प्रविशन् वा तं साधुं विलोक्यामङ्गलमिति मन्यमानस्तेनैवाश्व-हत्यादिना प्रेरणं कशादिना वाऽऽ हननं कुर्यात् । "इतरहा व"त्ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथापि जनसम्पर्दे प्रेरणमाहननं वा यथाभावेन भवेत् ॥ [मा. ६३८९] लोभे एसणघाते, संका तेने नपुंस इत्थी य । इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा ॥ वृ-राजभवनप्रविष्टः 'लोभे' उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात् । 'स्तेनोऽयम्' इत्यादिका च शङ्का राजपुरुषाणां भवेत् । नपुंसकः स्त्रयो वा तत्र निरुद्धेन्द्रियाः साधुमुपसर्गयेयुः तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy