________________
४१०
बृहत्कल्प-छेदसूत्रम् -३-६/२१५
गतमौद्देशिकद्वारम् । अथ शय्यातरपिण्डद्वारमाह{भा.६३७८] तित्थंकरपडिकुट्ठो, आणा अत्रात उग्गमो न सुज्झे ।
अविमुत्तिअलाघवता, दुलभ सेज्जा विउच्छेदो ।। वृ- आद्यन्तवजैर्मध्यमविदेहजैश्च तीर्थकरैराधाकर्म कथञ्चिद् भोक्तुमनुज्ञातं न पुनः शय्यातरपिण्डोअतस्तैः प्रतिक्रुष्ट इति कृत्वा वर्जनीयोऽयम्।"आण"त्तितं गृह्णता तीर्थकृतामाज्ञा कृता न भवति । “अन्नाय"त्ति यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोच्छं सेवितं न स्यात् । "उग्गमो न सुज्झे"त्ति आसन्नादिभावतः पुनः पुनस्तत्रैव भिक्षा-पानकादिनिमित्तं प्रविशत उद्गमदोषान शुध्येयुः । स्वाध्यायश्रवणादिना च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति, तच्चगृह्णता अविमुक्ति गावा॑भावोनकृतः स्यात्।शय्यातर-तत्पुत्र-भ्रातृव्यादिभ्यो बहूपकरणंस्निग्धाहारं च गृह्णतउपकरण-शरीरयोलाघवं न स्यात्। तत्रैवचाहारादिगृह्णतः शय्यातर-वैमनस्यादिकरणात् शय्या दुर्लभा स्यात्, सर्वथा तद्व्यवच्छेदोवा स्यात् । अतस्तत्पिण्डोवर्जनीयः। अथ द्वितीयपदमाह[भा.६३७९] दुविहे गेलन्नम्मिं, निमंतणे दव्वदुल्लमे असिवे ।
ओमोदरिय पओसे, भए य गहणं अनुन्नातं ।। वृ-'द्विविधे' आगाढा-ऽनागाढे ग्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः । तत्रागाढे क्षिप्रमेव अनागाढे पञ्चकपरिहाण्या मासलघुके प्राप्ते सतीति । 'निमन्त्रणे च' शय्यानिर्बन्धे सकृत् तं गृहीत्वा पुनःपुनः प्रसङ्गोनिवारणीयः। दुर्लभेच क्षीरादिद्रव्येऽन्यत्रालभ्यमानेतथाऽशिवेऽवमौदर्ये राजप्रद्वेषेतस्करादिभये चशय्यातरपिण्डस्य ग्रहणमनुज्ञातम् । अत्र दुर्लभद्रव्यग्रहणेविधिमाह[भा.६३८०] तिक्खुत्तो सक्खेत्ते, चउद्दिसिंजोयणम्मि कडजोगी।
दव्वस्स य दुल्लभता, सागारिनिसेवणा ताहे ।। वृ-त्रिकृत्वः स्वक्षेत्रे चतसृषु दिक्षु सक्रोशयोजने गवेषितस्यापिघृतादेव्यस्य यदा दुर्लभता भवति तदा सागारिकपिण्डस्य निषेवणं कर्तव्यम्॥
गतं सागारिकपिण्डद्वारम् । अथ राजपिण्डद्वारमाह[मा.६३८१] केरिसगुत्ति व राया, भेदा पिंडस्स के वसे दोसा ।
केरिसगम्मिव कज्जे, कप्पति काए व जयणाए। वृ-कीशोऽसौ राजा यस्य पिण्डः परिहियते? इति । के वा 'तस्य राजपिण्डस्य भेदाः?। के वा "से" तस्य ग्रहणे दोषाः ? । कीशे वा कार्ये राजपिण्डो ग्रहीतुं कल्पते? । कया वा यतनया कल्पते? । एतानि द्वाराणि चिन्तनीयानि ॥ तत्र प्रथमद्वारे निर्वचनं तावदाह[भा.६३८२] मुइए मुद्धभिसित्ते, मुतितो जो होइ जोनिसुद्धो उ।
अभिसित्तो व परेहि, सतं व भरहो जहा राया। वृ-राजा चतुर्दा मुदितोमूर्धाभिषिक्तश्च १ मुदितो नमूर्धाभिषिक्तः २ नमुदितो मूर्धाभिषिक्तः ३न मुदितो न मूर्धाभिषिक्तः। तत्र मुदितो नाम-यो भवति 'योनिशुद्धः' शुद्धोभयपक्षसम्भूतः, यस्य माता-पितरौ राजवंशीयाविति भावः । यः पुनः परेण' मुकुटबद्धेन पट्टबद्धेन राज्ञा प्रजया वा राज्येऽभिषिक्तः । यो वा 'स्वयं आत्मनैवाभिषिक् यथा भरतो रजा एष मूर्धाभिषिक्त उच्यते ॥ एषु विधिमाह
[भा.६३८३] पढमग भंगे वजो, होतु व मा वा वि जे तहिं दोसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org