SearchBrowseAboutContactDonate
Page Preview
Page 1460
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ६, मूलं-२१५, [भा. ६३७२] ४०९ __वृ-निरुपहतो नाम-नीरोगस्तस्य लिङ्गभेदं कुर्वतश्चतुर्गुरुकाः । अथवा निरुपहतं नामयथाजातलिङ्गं तस्य भेदे चतुर्गुरु ॥ तस्य च लिङ्गभेदस्येमे भेदाः[भा.६३७३] खंधे दुवार संजति, गरुलऽद्धंसे य पट्ट लिंगदुवे । लहुगो लहुगोलहुगा, तिसुचउगुरु दोसुमूलं तु ।। वृ-स्कन्धे कल्पं करोति मासलघु । शीर्षद्वारिकां करोति मासलघु । संयतीप्रावरणं करोति चतुर्लघु । गरुडपाक्षिकं प्रावृणोति, अर्धांसकृतं करोति, कटीपट्टकं बध्नन्ती, एतेषु त्रिष्वपि चतुर्गुरु ।गृहस्थलिङ्गपरलिङ्गंवाकरोति द्वयोरपि मूलम्॥द्वितीयपदेतु-कारणजातेलिङ्गभेदोऽपि कर्तुं कल्पते । कुत्र? इत्याह-ग्लानत्वं कस्यापि विद्यते तस्योद्वर्तनमुपवेशनमुत्थापनं वा कुर्वन् कटीपट्टकं बध्यात् । लोचं वाऽन्यस्य साधोः कुर्वाणः कटीपट्टकं बजाति। "रोगि"त्ति कस्यापि रोगिणोऽसि लम्बन्ते द्वौ भ्रातरौ वा शूनौ स कटीपट्टकं बध्यात् । “सरीरवेयावडियं" ति मृतसंयमशरीरस्य वैयावृत्यं नीहरणं कुर्वन्, आदिग्रहणात्प्रतिश्रयंप्रमार्जयन्अलावूनि वाविहायसि लम्बमानः कटीपट्टकं बध्नीयात् ।। गृहिलिङ्गा-ऽन्यलिङ्गयोरयमपवादः[मा.६३७४] असिवे ओमोयरिए, रायडुढे व वादिदुढे वा। आगाढ अनलिंगं, कालक्खेवो व गमणं वा ।। -स्वपक्षप्रान्तेआगाढे अशिवेऽन्यलिङ्गंकृत्वातत्रैव कालक्षेपं कुर्वन्ति,,अन्यत्र वा गच्छन्ति। एवं 'राजद्विष्टे' राज्ञि साधूनामुपरि । द्वेषमापने, 'वादिद्विष्टे वा' वादपराजिते क्वापि वादिनि व्यपरोपणादिकं कर्तुकामे, एवंविधेआगाढे कारणेऽन्यलिङ्गम् उपलक्षणत्वाद् गृहिलिङ्गंवा कृत्वा कालक्षेपो वा गमनं वा विधेयम् ।।गतमाचेलक्यद्वारम् । अथौघिशिकद्वारमाह[भा.६३७५] आहा अधे य कम्मे, आयाहम्मे य अत्तकम्मे य। तंपुन आहाकम्म, कप्पति न व कप्पती कस्स। वृ-आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति औद्देशिकस्य-साधूनुद्दिश्य कृतस्य भक्तादश्चत्वारि नामानि । तत् पुनः' आधाकर्म कस्य कल्पते? कस्य वा न कल्पते?॥ एवं शिष्येण पृष्टे सूरिराह[भा.६३७६] संघस्सोह विभाए, समणा-समणीण कल गणे संघे। कडमिह ठिते न कप्पति, अहित कप्पेजमुद्दिस्स ।। -अस्या व्याख्या सविस्तरंतृतीयोदेशके कृताअतोऽत्राक्षरार्थमात्रमुच्यते-ओघतोवाविभागतो वा सङ्घस्य श्रमणानां श्रमणीनां कुलस्य गणस्य सङ्घस्य वा सङ्कल्पेन यद् भक्तपानादिकं कृतं तत् 'स्थितकल्पिकानां प्रथम-पश्चिमसाधूनां न कल्पते । ये पुनरस्थितकल्पे स्थिताः तेषां यमुद्दिश्य कृतं तस्यैवैकस्य न कल्पते अन्येषां तु कल्पते ॥ द्वितीयपदे तु स्थितकल्पिकानामपि कल्पते । यत आह[भा.६३७७] आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणा उ । तिक्खुत्तऽडविपवेसे, चउपरियट्टे ततो गहणं ।। वृ-आचार्येऽभिषेके भिक्षौ वा ग्लाने सआते सति आधाकर्मणो 'भजना' सेवनाऽपि क्रियते। तथा अटवी-विप्रकृष्टोऽध्वा तस्यांप्रवेशे कृते यदि शुद्धंन लभ्यते ततः त्रिकृत्वः शुद्धमन्वेषितमपि यदि न लब्धं ततश्चतुर्थे परिवर्ते आधाकर्मणो ग्रहणं कार्यम् ।। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy