________________
४०८
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ भा.६३६७] जुन्नेहिं खंडिएहि य, असव्वतनुपाउतेहिं न यनिच्छं।
संतेहिं वि निग्गंथा, अचेलगा होति चेलेहिं॥ वृ-एवं 'जीर्णैः' पुराणैः, 'खण्डितैः' छिन्नैः, 'असर्वतनुप्रावतैः' स्वल्पप्रमाणतया सर्वस्मिन् शरीरेऽप्रावृतैः प्रमाणहीनरित्यर्थः, न च नित्यं सदैव प्रावृतैः किन्तु शीतादिकारणसद्भावे, एवंविधैश्चेलैः सद्भिरपि विद्यमानैरपि निर्ग्रन्थाअचेलका भवन्ति ।।अनपराभिप्रायमाशङ्कय परिहरति[भा.६३६८] एवं दुग्गत-पहिता, अचेलगा होति ते भवे बुद्धी।
ते खलु असंततीए, घरेति न तु धम्मबुद्धीए॥ कृ-यदिजीर्ण-खण्डितादिभिर्वस्त्रप्रावृतैः साधवोऽचेलकास्तत एवं दुर्गताश्च-दरिद्राः पथिकाचपान्था दुर्गत-पथिकास्तेऽपिअचेलका भवन्तीति 'ते' तव बुद्धि स्यात्तत्रोच्यते-'ते खलु'दुर्गतपथिकाः असत्तया' नव-व्यत-सदशकादीनांवस्त्रणामसम्पत्त्यापरिजीर्णादीनिवासांसिधारयन्ति, न पुनर्धर्मबुद्धया, अतो भावतस्तद्विषयमूर्छापरिणामस्यानिवृत्तत्वानेते अचेलकाः; साधवस्तु सति लाभेमहाधनादीनि परिहत् जीर्ण-खण्डितादीनिधर्मबुद्धयाधारयन्तीत्यतोऽचेला उच्यन्ते। यद्येवमचेलास्ततः किम् ? इत्याह[भा.६३६९] आचेलको धम्मो, पुरिस्स यपच्छिमस्स य जिनस्स।
मज्झिमगाण जिनानं, होति अचेलो सचेलो वा ।। वृ-अचेलकस्य भावआचेलक्यम्, तदत्रास्तीति आचेलक्यः, अघ्रादेराकृतिगणत्वादप्रत्ययः। एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे भवति । मध्यमकानां तु जिनानामचेलः सचेलो वा भवति ॥ इदमेव भावयति[भा.६३७०] पडिमाए पाउता वा, नऽतिकमते उमज्झिमा समणा।
पुरिम-चरिमाण अमहद्धणा तु मिन्ना इमे मोत्तुं। पृ-'मध्यमाः' मध्यमतीर्थकरसत्काः साधवः प्रतिमया वा' नग्नतया 'प्रावृता वा' प्रमाणातिरिक्त-महामूल्यादिभिर्वासोभिराच्छादितवपुषोनातिकामन्ति भागवतीमाज्ञामितिगम्यते। पूर्वचरमाणांतु प्रथम-पश्चिमतीर्थकरसाधूनां अमहाधनानि स्वल्पमूल्यानि भिन्नानिच' अकृत्स्नानि, प्रमाणोपेतान्यदशकानि चेत्यर्थः, परमिमानि कारणानि मुक्त्वा ।। तान्येवाह[मा.६३७१] आसज्ज खेत्तकप्पं, वासावासे अभाविते असहू।
काले अद्धाणम्मि य, सागरितेने व पाउरणं ।। वृ-क्षेत्रकल्पं देशविशेषाचारमासाद्याभिन्नान्यपि प्राब्रियन्ते, यथा सिन्धुविषये ताशानि प्रावृत्य हिण्ड्यते । वर्षावासे वा वर्षाकल्पं प्रावृत्य हिण्डयते । 'अभावितः' शैक्षः कृत्स्नानि प्रावृतो हिण्डते यावद् भावितो भवति ।असहिष्णुः शीतमुष्णं वा नाधिसोढुंशक्नोति ततः कृत्स्नं प्रावृणुयात्। 'काले वा' प्रत्यूषे भिक्षार्थं प्रविशन्प्रावृत्य निर्गच्छेत् । अध्वनि वा प्रावृता गच्छन्ति। यदि सागारिकप्रतिबद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादिभुवं गच्छन्ति । स्तेना वा पथि वर्तन्ते तत उत्कृष्टोपधिं स्कन्धे कक्षायां वा विण्टिकां कृत्वाउपरि सर्वाङ्गीणंप्रावृता गच्छन्ति। एतेषु कारणेषु कृत्स्नस्योपधेः प्रावरणं कर्तव्यम् ॥ तथा[भा.६३७२] निरुवहय लिंगभेदे, गुरुगा कप्पति तुकारणजाए।
गेलन लोय रोगे, सरीरवेतावडितमादी ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org