________________
उद्देशक : ६, मूलं - २१५, [भा. ६३६१]
तद्दि दीक्षितमपि साधुं वन्दन्ते, कृतिकर्म च यथारालिकं तेऽपि कुर्वन्ति । अत एते चत्वारः कल्पा अवस्थिताः । इमे पुनः षडनवस्थिताः
[भा. ६३६२]
आचेलकुद्देसिय, सपडिक्कमणे व रायपिंडे य । मासं पज्जोसवणा, छऽप्पेतऽनवट्ठिता कप्पा ।। वृ-आचेलक्यमौद्देशिकं सप्रतिक्रमणो धर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेति षडप्येते कल्पा मध्यमसाधूनां विदेहसाधूनां चानवस्थिताः । तथाहि यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते तदा अचेलाः अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृह्णन्तीति भावः 'औद्देशिकं नाम' साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोरर्थाय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावे न कुर्वन्ति । राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्ति ततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्णे वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति ।। गता सामायिकसंयतकल्पस्थितिः । अथ च्छेदोपस्थापनीयसाधूनां कल्पस्थितिमाह
[भा. ६३६३] दसठाणठितो कप्पो, पुरिमस्स य पच्छिमस्स य जिनस्स । एसो धुतरत कप्पो, दसठाणपतिट्ठितो होति ॥
role
वृ-दशस्थानस्थितः कल्पः पूर्वस्य च पश्चिस्य च पश्चिमस्य च जिनस्य तीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः । तदेवमेष धुतरजाः कल्पो दशस्थानप्रतिष्ठितो भवति ।। तान्येव दश स्थानानि दर्शयति[ भा. ६३६४] आचेलकुद्देसिय, सिज्जायर रायपिंड कितिकम्मे ।
वत जेठ पडिक्कम, मासं पज्जोसवणकप्पे |
वृ- आचेलकस्यम् १ औद्देशिकं २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ "जेट्ट" त्ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणं ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराह
[ भा. ६३६५ ] दुविहो होति अचेलो, संताचेलो असंतचेलो य । तित्थगर असंतचेला, संताचेला भवे सेसा ॥
वृ-द्विविधो भवत्सचेलः -सदद्येलोऽ सदचेलश्च । तत्र तीर्थकरा असदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां चीवराभावात् । 'शेषाः' सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघन्यतोऽपि रजोहरण-मुखवस्त्रिकासम्भवात् ।। आह-यद्येवं ततः कथममी अचेला भण्यन्ते ? उच्यते
[भा. ६३६६] सीसावेढियपुत्तं, नदिउत्तरणम्मि नग्गयं बेंति ।
जुन्नेहि नग्गिया मी, तुर सालिय ! देहि मे पोतिं ।।
वृ-जलतीमनभयात् शीर्षे-शिरसि आवेष्टितं पोतं परिधानवस्त्रं येन स शीर्षावेष्टितपोतस्तम्, एवंविधं सचेलमपि 'नद्युत्तरणे' अगाधायाः कस्याश्चिद् नद्या उत्तरणं कुर्वन्तं दृष्टवा नग्नकं ब्रुवते, 'नग्नोऽयम्' इति लोके वक्तारो भवन्तीत्यर्थः । यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनं तन्तुवायं शाटिकानिष्पादनालसं ब्रवीति, यथा- जीर्णैर्वस्त्र परिहितैर्नग्निकाऽहमस्मि ततस्त्वरस्व 'हे शालिक !' तन्तुवाय ! देहि मे 'पोतिकां' शाटिकाम् ॥ अथात्रैवोपनयमाह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International