________________
४०६
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ -अथवा य एष प्रस्ततशास्त्र प्रलम्बादिकः 'बहधा' अनेकविधः कल्पः समाख्यातः तस्य 'षट्स्थाना' षट्प्रकारा स्थितिर्भवति। स्थितिरिति मर्यादा इति चैकार्थी शब्दौ।।
भूयोऽपि विनेयानुग्रहार्थं स्थितेरेवैकार्थिकान्याह[भा.६३५६] पतिद्वा ठावणा ठाणं, निविसमाणे तहेव निबिडे।
अवट्ठाणं अवत्था य, एकट्ठा चिट्ठणाऽऽतिय।। वृ-प्रतिष्ठास्थापना स्थानं व्यसथासंस्थिति स्थितिअवस्थानम् अवस्थाच, एतान्येकार्थिकानि पदानि । तथा “चिट्ठणं" ऊर्ध्वस्थानम् आदिशब्दाद् निषदनं त्वग्वर्तनं च, एतानि त्रीण्यपि स्थितिविशेषरुपाणि मन्तव्यानि॥साच कल्पिस्थिति षोढा, तद्यथा[भा.६३५७] सामाइए य छेदे, निव्विसमाणे तहेव निविटे।
जिनकप्पे थेरेसुय, छव्विह कप्पट्टिती होति।। सामायिकसंयतकल्पस्थितिछेदोपस्थापनीयसंयतकल्पस्थिति निर्विशमानकल्पस्थितितथैव निर्विष्टकायकल्पस्थिति जिनकल्पस्थिति स्थविरकल्पस्थितिश्रचेति षड्विधा कल्पस्थितिः ।।
अथैनामेव यथाक्रमं विवरीषुः प्रथमतः सामायिककल्पस्थिति विवृणोति[भा.६३५८] कतिठाण ठितो कप्पो, कतिठाणेहिं अद्वितो।
वुत्तो धूतरजो कप्पो, कतिठाणपतिद्वितो। वृ-यः किल 'धुतरजाः' अपनीतपापकर्मासामायिकसाधूनां कल्पः' आचारो भगवद्भिरुक्तः स कतिषु स्थानेषु स्थितः ? कतिस्थानप्रतिष्ठितश्चोक्तः? ।। सूरिराह[मा.६३५९] चउठाणठिओ कप्पो, छहिं ठाणेहिं अट्टिओ।
एसो धूयरय क्कप्पो, दसट्टाणपतिहिओ॥ वृ-चतुःस्थानस्थितः कल्पः, षट्सुच स्थानेष्वस्थितः । तदेवमेष धुतरजाः सामायिकसंयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित् पुनरस्थित्या दशसु स्थानेषु प्रतिबद्धो मन्तव्य इत्यर्थः ॥ इदमेव व्यक्तीकरोति[भा.६३६०]चउहि ठिता छहिं अठिता, पढमा बितिया ठिता दसविहम्मि ।
वहमाणा निविसगा, जेहि वहं ते उ निविट्ठ ॥ पृ-'प्रथमाः' सूत्रकमप्रामाण्येन सामायिकसंयतास्तेचतुर्युस्थानेषु स्थिताः,षट्सुपुनरस्थिताः। गाथायांसप्तम्यर्थे तृतीया।येतु द्वितीयाः' छेदोपस्थापनीयसंयतास्तेदशविधेऽपि कल्पे स्थिताः। पश्चार्द्धन तृतीय-चतुर्थकल्पस्थित्योः शब्दार्थमाह- “वहमाणा" इत्यादि। ये परिहारविशद्धिक तपोवहन्ति तेनिर्विशमानकाः ।यैस्तुतदेव तपोव्यूढं ते निर्विष्टकायिका उच्यन्ते॥आह कानिपुनस्तानि चत्वारिषद्द्वा स्थानानि येषुसामायिकसंयता यथाक्रमंस्थिता अस्थिताश्च? इति अत्रोच्यते[भा.६३६१] सिजायरपिंडे या, चाउज्जामे य पुरिसजेट्टे य।
कितिकम्मरस य करणे, चत्तारि अवट्ठिया कप्पा॥ वृ- “सिज्जातरपिंडे" त्ति “सूचनात् सूत्रम्" इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्च धर्म कृतिकर्मणश्च करणम्। एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि-सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्व शय्यातरपिण्ड परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्म' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org