________________
४१३
उद्देशक : ६, मूलं-२१५, [भा. ६३९७] [भा.६३९७] तिक्खुत्तो सक्खित्ते, चउद्दिसिंजोयणम्मि कडजोगी।
दव्वस्स यदुल्लभया, जयणाए कप्पई ताहे ।। दृ-माथाद्वयंशय्यातरपिण्डवद्रष्टव्यम्।नवरम्आगाढे ग्लानत्वेक्षिप्रमेव राजपिण्डंगृह्णाति। अनागाढे तु त्रिकृत्वो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाण्या चतुर्गुरुकप्राप्तो गृह्णाति। 'निमन्त्रणेतु' राज्ञानिर्बन्धेन निमन्त्रितो भणति-यदि भूयोनभणसिततोगृह्णीमो वयम् नान्यथा। अवमेऽशिवे चान्यत्रालभ्यमाने राजकुलं वा नाशिवेन गृहीतं ततस्तत्र गृह्णाति । राजद्विष्टे तु अपरस्मिन् राज्ञि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहादनिर्गच्छन् गृह्णीयात् ।।
गतं राजपिण्डद्वारम् । अथ कृतिकर्मद्वारमाह[भा.६३९८] कितिकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदनगं।
समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥ वृ-कृतिकर्मापि च द्विविधम्-अभ्युत्थानं तथैव वन्दनकम् । एतच द्विविधमपि तृतीयोद्देशके सविस्तरं व्याख्यातम् । उभयमपिच श्रमणैः श्रमणीभिश्च यथार्ह यथारलाधिकंपरस्परं कर्तव्यम्। तथा श्रमणीनामयं विशेषः[मा.६३९९] सव्वाहि संजतीहिं, कितिकम्मं संजताण कायव्वं ।
पुरिसुत्तरितो धम्मो, सव्वजिनानं पितित्थम्मि। वृ-सर्वाभिरपि संयतीभिश्चिरप्रव्रजिताभिरपि संयतानां तद्दनिदीक्षितादीनामपि कृतिकर्म कर्तव्यम् । कुतः ? इत्याह-'सर्वजिनानामपि' सर्वेषामपि तीर्थकृतां तीर्थे पुरुषोत्तरो धर्म इति ।। [भा.६४००] तुच्छत्तणेण गव्बो, जायति न य संकते परिभवेणं ।
अनो वि होज्ज दोसो, थियासुमाहुजहज्जासु॥ कृ-स्त्रियाः साधुना वन्धमानायास्तुच्छत्वेनगर्वोजायते।गर्विताच साधुंपरिभवबुध्या पश्यति। ततः परिभवेन 'न च' नैव साधोः 'शङ्कते' बिभेति । अन्योऽपि दोषः स्त्रीषु 'माधुर्यहार्यासु' मार्दवग्राह्यासु वन्द्यमानासु भवति, भावसम्बन्ध इत्यर्थः ।। [भा.६४०१] अवि य हु पुरिसपणीतो, धम्मो पुरिसो य रखिउं सत्तो।
लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ।। वृ-'अपिच इतिकारणान्तराभ्युच्चये।पुरुषैः-तीर्थकर-गणधरलक्षणैःप्रणीतः पुरुषप्रणीतो धर्म । पुरुष एव च तं धर्म रक्षितुं' प्रत्यनीकादिनोपद्रूयमाणं पालयितुं शक्तः । लोकविरुद्धं च 'एतत् पुरुषेण स्त्रिया वन्दनम् । तस्मात् श्रमणानां ताभिः कर्तव्यम्॥
गतंकृतिकर्मद्वारम् । अथ व्रतद्वारमाह[मा.६४०२) पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिनस्स ।
मज्झिमगाण जिनानं, चाउजामो भवे धम्मो।। वृ-पञ्च यामाः-व्रतानि यत्रस पञ्चयामः, “दीर्घ-हस्वौ मिथो वृत्तौ" इतिप्राकृतलक्षणवशात् चकारस्य दीर्घत्वम् । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहव्रत एवान्तर्भावविवक्षणात् ॥
कुत एवम् ? इति चेद् उच्यते[भा.६४०३] पुरिमाण दुब्बिसोझो, चरिमाणं दुरनुपालओ कप्पो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org