________________
४१४
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ मज्झिमगाण जिनानं, सुविसोझो सुरनुपालो य ॥ वृ-पूर्वेषां साधूनां दुर्विशोध्यः कल्पः, 'चरमाणां' पश्चिमानां दुरनुपाल्यः, मध्यमकानां तु जिनानां तीर्थे साधूनां सुविशोध्यः सुखानुपाल्यश्च भवति । इयमत्र भावना-पूर्वे साधव ऋजुजडाः, ततः परिग्रहव्रत एवान्तर्भावं विक्षित्वा यदि मैथुनव्रतं साक्षान्नोपदिश्यते ततस्ते जडतया नेदमवबुध्यन्ते, यथा-मैथुनमपि परिहर्तव्यम्; यदा तु पृथक् परिस्फुटं मैथुनं प्रतिषिध्यते ततः सुखेनैव पर्यवस्यन्ति परिहरन्ति च । पश्चिमास्तु वक्र-जडाः, ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भावंजानन्तोऽपि वक्रतयापरपरिगृहीतायाः स्त्रयाःप्रतिसेवनांकुर्वीरन्, पृष्टाश्च ब्रवीरन्-नैषाऽस्माकंपरिग्रह इति।ततएतेषांपूर्व-पश्चिमानांपञ्चयामोधर्मो भगवता ऋषभस्वामिना वर्द्धमानस्वामिना च स्थापितः । ये तु मध्यमाः साधवस्ते ऋजु-प्राज्ञाः, ततः परिग्रहे प्रतिषिद्धे प्राज्ञत्वेनोपदेशमात्रादपि अशेषहेयोपादेयविशेषाभ्यूहनपटीयस्तया चिन्तयेयुः-नापरिगृहीता स्त्री परिभुज्यते अतो मैथुनमपि न वर्तते सेवितुम्; एवं मैथुनं परिग्रहेऽन्तर्भाव्य तथैव परिहरन्ति ततस्तेषां चतुर्यामो धर्मो मध्यमजिनरुक्त इति।अमुमेवार्थ समर्थयत्राह[भा.६४०४] जडत्तणेण हंदि, आइक्ख-विभाग-उवणता दुक्खं ।
सुहसमुदिय दंताण व, तितिक्ख अनुसासना दुक्खं ॥ -सर्वेषां (पूर्वेषां) साधूनांजडतया 'हन्दि' इत्युपप्रदर्शने वस्तुतत्त्वस्याख्यानं दुःखं कृच्छ्रेण, महता वचनाटोप प्रयासेन कर्तुं शक्यमित्यर्थः । एवमाख्यातेऽपि वस्तुतत्त्वे विभागः-पार्थक्येन व्यवस्थापनमहताकष्टेनकर्त शक्यते। विभक्तेऽपिवस्तुतत्त्वेउपनयः-हेतु-दृष्टान्तैःप्रतीतावारोपणं कर्तुं दुःशकम् । ते च प्रथमतीर्थकरसाधवः “सुखसमुदिताः' कालस्य स्निग्धतया शीतोष्णादीनां तथाविधदुःखहेतूनामभावात् सुखेन सम्पूर्णास्ततः 'तितिक्षा' परीषहादेरधिसहनं तेषां 'दुःखं' दुष्करम् । तथा दान्ताः-एकान्तेनोपशान्तास्ते ततः क्वचित् प्रमादस्खलितादौ शिष्यमाणानामनुशासनाऽपि कर्तुं दुःशका॥ भा.६४०५] मिच्छत्तभावियाणं, दुवियट्टमतीण वामसीलाणं ।
आइक्खिउं विभइउं, उवनेउं वा वि दुक्खं तु॥ वृ-ये तु चरमतीर्थकरसाधवस्ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाच, ततस्तेषामपि वस्तुतत्त्वमाख्यातुं विभक्तुभुपनेतुं वा 'दुःखं' दुःखतरम् ॥ [भा.६४०६] दुक्खेहि भत्थिताणं, तनु-धितिअबलत्तओ य दुतितिक्खं ।
एमेव दुरनुसासं, मानुक्कडओ य चरिमाणं ॥ कृतथा कालस्य रूक्षतया दुःखैः' विविधाऽऽधि-व्याधिप्रभृतिभिशारीर-मानसैः 'भर्सितानाम् अत्यन्तमुपतापितानां तनुः-शरीरं धृति-मानसोऽवष्टम्मः तद्विषयं यद् अबलत्वं-बलाभावस्ततः कारणाद् दुस्तितिक्षं तेषां परीषहादिकं भवति । एवमेव मानस्य-अहङ्कारस्य उपलक्षणत्वात् क्रोधादेश्वोत्कटतया दुरनुशासं चरमाणां भवति, उत्कटकषायतया दुःखेनानुशासनां ते प्रपद्यन्त इत्यर्थः । अत एषांपूर्वेषां च पञ्चयामो धर्म इति प्रक्रमः ।। {मा.६४०७] एए चेव य ठाणा, सुप्पत्रुजुत्तणेण मज्झाणं ।
सुह-दुह-उभयबलाण य, विमिस्सभावा भवे सुगमा ।। वृ-'एतान्येव' आख्यानादीनिस्थानानि मध्यमानां 'सुगमानि' सुकराणिभवेयुरितिसम्बन्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org