Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1472
________________ उद्देशक: ६, मूलं- २१५, [भा. ६४४३ ] वृ- अष्टादश भेदाः 'पुरुषे' पुरुषविषयाः, विंशतिः स्त्रियः, दश नपुंसकाः, एतानष्टचत्वारिंशतमनलान् शैक्षान् यो न दीक्षते स एष कल्प-कल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते ।। [ भा. ६४४४ ] आहार- उबहि- सेजा, उग्गम-उप्पादनेसणासुद्धा । जो परिगिण्हति निययं, उत्तरगुणकप्पिओ स खलु ॥ वृ य आहारोपधि शय्या उद्गमोत्पादनैषणाशुद्धाः 'नियतं' निश्चितं परिगृह्णाति स खलूत्तरगुणकल्पिको मन्तव्यः । एतेषु सध्शकल्पेन सह किं कर्तव्यम् ? इत्याह[भा. ६४४५ ] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्ठतरए वा । साहूहिं संथवं कुज्जा, नाणीहि चरित्तगुत्तेहिं ॥ वृ- 'सध्क्कल्पः' स्थितकल्प-स्थापनाकल्पादिभिरेककल्पवर्ती 'सद्दक्छन्दः' समानसामाचारीकः 'तुल्यचारीत्रः' समानसामायिकादिसंयमः 'विशिष्टतरोवा' तीव्रतरशुभाध्यवसायविशेषेणोत्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमानः, ईशा ये ज्ञानिनश्चारित्रगुप्ताश्च तैः सह 'संस्तवं' परिचयमेकत्र संवावादिकं कुर्यात् ॥ [भा. ६४४६ ] सरिकप्पे सरिछंदे, तुल्लचरिते विसिट्ठतरए वा । आदिज भत्त- पानं, सतेन लाभेन वा तुस्से । वृ- यः सद्दक्कल्पः सद्दक्छन्दस्तुल्यचारित्रो विशिष्टतरो वा 'तेन' एवंविधेन साधुनाऽऽनीतं भक्त - पानमाददीत्, 'स्वकीयेन वा' आत्मीयेन लाभेन तुष्येत्, हीनतरस्तकंन गृह्णीयात् ॥ तदेवमुक्ता छेदोपस्थापनीयकल्पस्थिति । अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीषुराहपरिहारकप्पं पवक्खामि, परिहरति जहा विऊ । आदी मज्झऽवसाने य, आनुपुवि जहक्कमं ॥ [ भा. ६४४७ ] - परिहारकल्पं प्रवक्ष्यामि, कथम् ? इत्याह-यथा 'विद्वांसः' विदितपूर्वगतश्रुतरहस्यास्तं कल्पं 'परिहरन्ति' धातूनामनेकार्थत्वाद् आसेवन्ते । कथं पुनः वक्ष्यसि ? इति अत आह- 'आदी' तत्प्रथमतया प्रतिपद्यमानानां 'मध्ये' प्रतिपन्नानाम् 'अवसाने' प्रस्तुतकल्पमाप्ती या 'आनुपूर्वी' सामाचार्या परिपाटि तां यथाक्रमं प्रवक्ष्यामीति सण्टङ्कः ॥ तत्र कतरस्मिन् तीर्थे एष कल्पो भवति ? इति जिज्ञासायामिदमाह[ भा. ६४४८] भररवेसु वासेसु, जता तित्थगरा भवे । पुरिमा पच्छिमा चैव, कप्पं देसेंति ते इमं । ४२१ वृ- भरतैरावतेषु वर्षेषु दशस्वपि यदा तृतीय-चतुर्थारकयोः पश्चिमे भागे पूर्वा पश्चिमाश्च तीर्थकरा भवेयुः तदा ते भगवन्तः 'इमं' प्रस्तुतं कल्पं 'दिशन्ति' प्ररूपयन्ति, अर्थादापत्रम्मध्यमतीर्थकृतां महाविदेहेषु च नास्ति परिहारकल्पस्थितिरिति । आह यदि एवं ततः[ भा. ६४४९ ] केवइयं कालसंजोगं, गच्छो उ अनुसज्जती । तित्थयरेसु पुरिमेसु, तहा पच्छिमएसु य ॥ वृ-कियन्तं कालसंयोगं परिहारकल्पिकानां गच्छः पूर्वेषु पश्चिमेषु च तीर्थकरेषु 'अनुसजति' परम्परयाऽनुवर्तते ? | एवं शिष्येण पृष्टे सति सूरिराह [मा. ६४५० ] Jain Education International पुव्वसयसहस्साई, पुरिमस्स अनुसज्जती । वसग्गसो य वासाई, पच्छिमस्सानुसञ्जती ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500