________________
उद्देशक: ६, मूलं- २१५, [भा. ६४४३ ]
वृ- अष्टादश भेदाः 'पुरुषे' पुरुषविषयाः, विंशतिः स्त्रियः, दश नपुंसकाः, एतानष्टचत्वारिंशतमनलान् शैक्षान् यो न दीक्षते स एष कल्प-कल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते ।। [ भा. ६४४४ ] आहार- उबहि- सेजा, उग्गम-उप्पादनेसणासुद्धा । जो परिगिण्हति निययं, उत्तरगुणकप्पिओ स खलु ॥
वृ य आहारोपधि शय्या उद्गमोत्पादनैषणाशुद्धाः 'नियतं' निश्चितं परिगृह्णाति स खलूत्तरगुणकल्पिको मन्तव्यः । एतेषु सध्शकल्पेन सह किं कर्तव्यम् ? इत्याह[भा. ६४४५ ] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्ठतरए वा । साहूहिं संथवं कुज्जा, नाणीहि चरित्तगुत्तेहिं ॥
वृ- 'सध्क्कल्पः' स्थितकल्प-स्थापनाकल्पादिभिरेककल्पवर्ती 'सद्दक्छन्दः' समानसामाचारीकः 'तुल्यचारीत्रः' समानसामायिकादिसंयमः 'विशिष्टतरोवा' तीव्रतरशुभाध्यवसायविशेषेणोत्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमानः, ईशा ये ज्ञानिनश्चारित्रगुप्ताश्च तैः सह 'संस्तवं' परिचयमेकत्र संवावादिकं कुर्यात् ॥ [भा. ६४४६ ]
सरिकप्पे सरिछंदे, तुल्लचरिते विसिट्ठतरए वा । आदिज भत्त- पानं, सतेन लाभेन वा तुस्से ।
वृ- यः सद्दक्कल्पः सद्दक्छन्दस्तुल्यचारित्रो विशिष्टतरो वा 'तेन' एवंविधेन साधुनाऽऽनीतं भक्त - पानमाददीत्, 'स्वकीयेन वा' आत्मीयेन लाभेन तुष्येत्, हीनतरस्तकंन गृह्णीयात् ॥ तदेवमुक्ता छेदोपस्थापनीयकल्पस्थिति । अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीषुराहपरिहारकप्पं पवक्खामि, परिहरति जहा विऊ । आदी मज्झऽवसाने य, आनुपुवि जहक्कमं ॥
[ भा. ६४४७ ]
- परिहारकल्पं प्रवक्ष्यामि, कथम् ? इत्याह-यथा 'विद्वांसः' विदितपूर्वगतश्रुतरहस्यास्तं कल्पं 'परिहरन्ति' धातूनामनेकार्थत्वाद् आसेवन्ते । कथं पुनः वक्ष्यसि ? इति अत आह- 'आदी' तत्प्रथमतया प्रतिपद्यमानानां 'मध्ये' प्रतिपन्नानाम् 'अवसाने' प्रस्तुतकल्पमाप्ती या 'आनुपूर्वी' सामाचार्या परिपाटि तां यथाक्रमं प्रवक्ष्यामीति सण्टङ्कः ॥
तत्र कतरस्मिन् तीर्थे एष कल्पो भवति ? इति जिज्ञासायामिदमाह[ भा. ६४४८] भररवेसु वासेसु, जता तित्थगरा भवे ।
पुरिमा पच्छिमा चैव, कप्पं देसेंति ते इमं ।
४२१
वृ- भरतैरावतेषु वर्षेषु दशस्वपि यदा तृतीय-चतुर्थारकयोः पश्चिमे भागे पूर्वा पश्चिमाश्च तीर्थकरा भवेयुः तदा ते भगवन्तः 'इमं' प्रस्तुतं कल्पं 'दिशन्ति' प्ररूपयन्ति, अर्थादापत्रम्मध्यमतीर्थकृतां महाविदेहेषु च नास्ति परिहारकल्पस्थितिरिति । आह यदि एवं ततः[ भा. ६४४९ ] केवइयं कालसंजोगं, गच्छो उ अनुसज्जती ।
तित्थयरेसु पुरिमेसु, तहा पच्छिमएसु य ॥
वृ-कियन्तं कालसंयोगं परिहारकल्पिकानां गच्छः पूर्वेषु पश्चिमेषु च तीर्थकरेषु 'अनुसजति' परम्परयाऽनुवर्तते ? | एवं शिष्येण पृष्टे सति सूरिराह
[मा. ६४५० ]
Jain Education International
पुव्वसयसहस्साई, पुरिमस्स अनुसज्जती । वसग्गसो य वासाई, पच्छिमस्सानुसञ्जती ॥
For Private & Personal Use Only
www.jainelibrary.org