________________
बृहत्कल्प-छेदसूत्रम् - ३-६/२१५
अस्थिताः प्रतिपत्तव्याः । एवमेव च महाविदेहेषु ये स्थविरकल्पिका जिनकल्पिकाश्च तेऽप्यस्थितकल्पिकाः प्रतिपत्तव्याः ॥
४२०
गतं पर्युषणाकल्पद्वारम् । अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराह[ भा. ६४३७] एवं ठियम्मि मेरं, अट्ठियकप्पे य जो पमादेति । सो वट्टति पासत्ये, ठाणम्मि तगं विवज्जेज्जा ॥
वृ- 'एवम्' अनन्तरोक्तनीत्या या स्थितकल्पेऽस्थितकल्पे च 'मर्यादा' सामाचारी भणिता तां मर्यादां यः 'प्रमादयति' प्रमादेन परिहापयति सः 'पार्श्वस्थे' पार्श्वस्थसत्के स्थाने वर्तते; ततस्तकं विवर्जयेत्, तेन सह दान- ग्रहणादिकं सम्भोगं न कुर्यादिति भावः । कुतः ? इत्यत आह[ भा. ६४३८] पासत्थ संकिलिङ्कं ठाणं जिन वृत्तं थेरेहि य। तारिसं तु गवेसंतो, सो विहारे न सुज्झति ॥
वृ- 'पार्श्वस्थं' पार्श्वस्थसत्कं 'स्थानम्' अपराधपदं 'संक्लिष्टम्' अशुद्धं 'जिनैः' तीर्थकरैः 'स्थविरैश्च' गीतमादिभिः प्रोक्तम्, ततस्ताध्शं स्थानं गवेषयन् 'सः' यथोक्तसाचमाचारीपरिहापयिता विहारे न शुध्यति, नासौ संविग्नविहारीति भावः ॥
[भा. ६४३९]
पासत्थ संकिलिडं, ठाणं जिन वृत्तं थेरेहि य । तारिसं तु विवज्रेतो, सो विहारे विसुज्झति ॥
वृ- पार्श्वस्थं स्थानं संक्लिष्टं जिनैः स्थविरैश्च प्रोक्तम्, ततस्ताध्शं स्थानं विवर्जयन् 'सः’ यथोक्तसामाचारीकर्ता विहारे 'विशुध्यति' विशुद्धो भवति ।। यतश्चैवमतः
[भा. ६४४० ] जो कप्पठिति एवं सद्दहमाणो करेति सट्टाणे । तारिसं तु गवेसेज्जा, जतो गुणाणं न परिहानी ।।
वृ- यः 'एनाम्' अनन्तरोक्तां कल्पस्थितिं श्रद्दधानः स्वस्थाने करोति । स्वस्थानं नामस्थितकल्पेऽनुवर्तमाने स्थितकल्पसामाचारीम् अस्थितकल्पे पुनरस्थितकल्पसामाचारी करोति । 'ताध्शं' संविग्नविहारिणं साधुं 'गवेषयेत्' तेन सहैकत्र सम्भोगं कुर्यात्, 'यतः' यस्माद् 'गुणानां' मूलगुणोत्तरगुणानां परिहाणिर्न भवति ॥ इदमेव व्यक्तीकर्तुमाह
[ मा. ६४४१] ठियकप्पम्मि दसविधे, ठवणाकप्पे य दुविहमन्त्रयरे । उत्तरगुणकप्पम्मिय, जो सरिकप्पो स संभोगो ॥
वृ- 'स्थितकल्पे' आचेलक्यादौ दशविधे 'स्थापनाकल्पे च' वक्ष्यमाणे द्विविधान्यतरस्मिन् उत्तरगुणकल्पे च यः 'सद्दक्कल्पः ' तुल्यसामाचारीकः सः 'सम्भोग्यः' सम्भोक्तुमुचितः ॥ अत्र दशविधः स्थितकल्पोऽनन्तरमेवोक्तः । स्थापनाकल्पादिपदानि तु व्याख्यातुकाम आह[ भा. ६४४२ ] ठवणाकप्पो दुविहो, अकप्पठवणा य सेहठवणाय । पढमो अकप्पिएणं, आहारादी न गिण्हावे ॥
- स्थापनाकल द्विविधः - अकल्पस्थापनाकल्पः शैक्षस्थापनाकल्पश्च । तत्र 'अकल्पिकेन' अनधीतपिण्डेषणादिसूत्रार्थेन आहारादिकं 'न ग्राहयेत्' नाऽऽनाययेत्, तेनानीतं न कल्पत इत्यर्थः । एष प्रथमोऽकल्पस्थापनाकल्प उच्यते ॥
[भा. ६४४३]
Jain Education International
अट्ठारसेव पुरिसे, वीसं इत्थीओ दस नपुंसा य । दिक्खेति जो न एते, सेहट्टवणाए सो कप्पो ॥
For Private & Personal Use Only
www.jainelibrary.org