SearchBrowseAboutContactDonate
Page Preview
Page 1473
Loading...
Download File
Download File
Page Text
________________ ४२२ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ वृ-पूर्वशतसहस्राणि पूर्वस्य' ऋषभस्वामिनस्तीर्थे परिहारकल्पोऽनुसजति । पश्चिमस्य तु' श्रीवर्द्धमानस्वामिनस्तीर्थे 'विंशत्यग्रशः' कतिपयविंसतिसङ्ख्यापरिच्छिन्नानि वर्षाणि परिहारकल्पोऽनुसजति।तत्र ऋषभस्वामिनस्तीर्थयानि पूर्वशतसहस्राण्युक्तानि तानिदेशाने द्वेपूर्वकोटी मन्तव्ये । कथम् ? इति चे उच्यते-इह पूर्वकोट्यायुषो मनुष्या जन्मत आरभ्य सञ्जाताष्टवर्षा प्रव्रजिताः,तेषांचनवमेवर्षे उपस्थापनासआता, एकोनविंशतिवर्षपर्यायाणांच हेष्टिवाद उद्दिष्टः, तस्य वर्षेण योगः समाप्ति नीतः, एवं नव विंशतिश्च मिलिता एकोनत्रिंशद् वर्षाणि भवन्ति, एतावत्सु वर्षेषु गतेषु ऋषभस्वामिनः पार्वे परिहारकल्पं प्रतिपन्नाः, तत एकोनत्रिंशद्वर्षन्यूनां पूर्वकोटी परिहारकल्पे तैरनुपालिते सति येऽन्ये तेषां मूले परिहारकल्पं प्रतिपद्यन्ते तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यनांपूर्वकोटीमनुपालयन्ति, एवं देशोनेद्वेपूर्वकोटी भवतः। पश्चिमस्य तुयानि विंशत्यनशो वर्षाण्युक्तानि तानि देशोने द्वे वर्षशतेभवतः । तथा चाह[भा.६४५१] पव्वज अट्ठवास्स,दिट्ठिवातो उ वीसहिं । इति एकूणतीसाए, सयमूनं तु पच्छिमे।। [भा.६४५२] पालइत्ता सयं ऊन, वासाणं ते अपच्छिमे। काले देसिंति अन्नेसिं, इति ऊनातु वे सता॥ वृ. श्रीवर्द्धमानस्वामिकाले वर्षशतायुषो मनुष्याः, तत्र 'अष्टवर्षस्य' जन्मनः प्रभृति सतवर्षाष्टकस्य कस्यापि प्रव्रज्या साता, पूर्वोक्तरीत्या च विंशत्या वर्षेष्टिवादो योगतः समर्थितः, ततः श्रीमन्महावीरसकाशेपरिहारकल्पं नवजनाःप्रतिपद्यदेशोनवर्षशतमनुपालयन्ति इत्येवमेकोनत्रिंशतावरूनं शतं पश्चिमे' पश्चिमतीर्थकरकाले भवति। ततस्ते वर्षाणां शतमूनं तं कल्पं पालयित्वा 'अपश्चिमे काले' निजायुषः पर्यन्तेऽन्येषां तं कल्पं 'दिशन्ति' प्ररूपयन्ति, प्रवर्तयन्तीति भावः । तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनं शतं पालयन्ति । 'इति' एवं द्वे शते ऊने वर्षाणां भवत इति ॥ किमर्थं तृतीया पूर्वकोटी तृतीयं वा वर्षशतं न भवति? इत्याह[भा.६४५३] पडिवना जिणिंदस्स, पादमूलम्मिजे विऊ। ठावयंति उ ते अन्ने, नो उ ठावितठावगा। वृ-जिनेन्द्रस्य पादमूले ये विद्वांसः प्रस्तुतं कल्पंप्रतिपन्नास्त एवान्यांस्तत्र कल्पेस्थापयन्ति, न तु 'स्थापितस्थापकाः' जिनेनस्थापिता स्थापका येषां ते स्थापितस्थापकास्तेऽमुंकल्पमन्येषां न स्थापयन्ति । इदमत्र हृदयम्-इयमेवास्य कल्पस्य स्थितियत् तीर्थकरसमीपे वाऽमुंप्रतिपद्यन्ते, तीर्थकरसमीपप्रतिपन्नसाधुसकाशे वा, नाऽन्येषाम् । अतस्तृतीये पूर्वकोटि-वर्षशते न भवत इति ॥अथ कीगुणोपेता अमी भवन्ति? इत्याह[भा.६४५४] सव्वे चरित्तमंतो य, दंसणे परिनिट्ठिया। नवपुब्बिया जहन्नेणं, उक्कोस दसपुब्विया ।। [भा.६४५५] पंचविहे ववहारे, कप्पे त दुविहम्मिय । दसविहे य पच्छिते, सव्वे ते परिनिहिया ॥ वृ-सर्वेऽपि ते भगवन्तश्चारित्रवन्तः 'दर्शने च' सम्यक्त्वे परिनिष्ठिताः' परमकोटिमुपगताः ज्ञानमङ्गीकृत्य तु नवपूर्विणो जघन्येन, उत्कर्षतः 'दशपूर्विणः किञ्चिद्न्यूनदशपूर्वधरा मन्तव्याः। तथा- 'पञ्चविधे व्यवहारे' आगम-श्रुता-ऽऽज्ञा-धारणा-जीतलक्षणे 'द्विविधेच कल्पे' अकल्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy