Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ६, मूलं- २१५, (मा. ६४३१]
अस्थितकल्पः स्थितकल्पश्च । तत्र मध्यमसाधूनां मासकल्पोऽस्थितः, पूर्व-पश्चिमानां तु स्थितः । ततः पूर्व-पश्चिमाः साधवो नियमाद् ऋतुबद्धे मासं मासेन विहरन्ति । मध्यमानां पुनरनियमः, कदाचिद् मासमपूरयित्वाऽपि निर्गच्छन्ति कदाचित्तुं देशोनपूर्वकोटीमप्येकत्र क्षेत्रे आसते ॥ गतं मासकल्पद्वारम् । अथ पर्युषणाद्वारमाह
[ मा. ६४३२ ] पोसवणाकप्पो, होति ठितो अट्ठितो य थेराणं । एमेव जिनानं पि य, कप्पो ठितमट्टितो होति ।।
वृ- पर्युषणाकल्पः स्थविरकल्पिकानां जिनकल्पिकानां च भवति । तत्र स्थविराणां स्थितोऽस्थितश्च भवति । एवमेव जिनानामपि स्थितोऽस्थितश्च पर्युषणाकल्पः प्रतिपत्तव्यः ॥ इदमेव भावयति
[भा. ६४३३]
४१९
चाउम्मासुकोसे, सत्तरिराइंदिया जहत्रेणं । ठितमट्टितमेगतरे, कारणवच्चासितऽन्नयरे ||
वृ- उत्कर्षतः पर्युषणाकल्पश्चतुर्मासं यावद् भवति, आषाढपूर्णिमाया: कार्तिकपूर्णिमां यावदित्यर्थः । जघन्यतः पुनः सप्ततिरात्रिन्दिवानि, भाद्रपदशुक्ल पञ्चम्याः कार्तिकपूर्णिमां यावदित्यर्थः । एवंविधे पर्युषणाकल्पे पूर्व-पश्चिमसाधवः स्थिताः । मध्यमसाधवः पुनरस्थिताः । ते हि यदि वर्षारात्रो भवति मेघवृष्टिरित्यर्थः, तत एकत्र क्षेत्रे तिष्ठन्ति अन्यथा तु विहरन्ति । पूर्वपश्चिमा अपि ‘अन्यतरस्मिन् अशिवादौ कारणे समुत्पन्ने 'एकतरस्मिन् मासकल्पे पर्युषणाकल्पेवा 'व्यत्यासितं' विपर्यस्तमपि कुर्यु । किमुक्तं भवति ? - अशिवादिभि कारणैऋतुबद्धेमासमूनमधिकंवा तिष्ठेयुः, वर्षास्वपि तैरेव कारणैश्चतुर्मासमपूरयित्वाऽपि निर्गच्छन्ति परतो वा तत्रैव क्षेत्रे तिष्ठन्ति ॥ इदमेवाह
[ भा. ६४३४] येराण सत्तरखलु, वासासु ठितो उडुम्मि मासो उ । यच्चासितो तु कज्जे, जिनान नियमऽट्ठ चउरो य ।।
वृ- 'स्थविराणां' स्थविरकल्पिकानां प्रथम-पश्चिमतीर्थकरसत्कानां सप्तिर्दिनानि खलुशब्दो जघन्यत इत्यस्य विशेषस्य द्योतनार्थ, वर्षासु पर्युषणाकल्पो भवति । तेषामेव ऋतबद्धे मासमेकमेकत्रावस्थानरूपो मासकल्पः स्थितो भवति । 'कार्ये पुनः' अशिवादी 'व्यत्यासितः' विपर्यस्तोऽपि भवति, नाधिकप्रमाण इत्यर्थः । 'जिनानां तु' प्रथम-चरमतीर्थकरसत्कजिनकल्पिकानामृतुबद्धे नियमादष्टौ मासकल्पा वर्षासु चत्वारो मासा अन्यूनाधिकाः स्थिकल्पतया मन्तव्याः, निरपवादानुष्ठानपरत्वादेषामिति भावः ॥
[मा. ६४३५] दोसाऽसति मज्झिमगा, अच्छंती जाव पुव्वकोडी वि । विचरंति अ वासासु वि, अकद्दमे पाणरहिए य ॥
वृ- ये तु 'मध्यमाः' अस्थितकल्पिकाः साधवस्ते दोषाणाम् अप्रीतिक प्रतिबन्धादीनां असति अभावे पूर्वकोटीमप्येकत्र क्षेत्रे आसते । तथा वर्षास्वपि 'अकर्दमे' प्रम्लानचिक्खल्ले प्राणरहिते च भूतल जाते सति 'विचरन्ति विहरन्ति ऋतुबद्धेऽपि यदि अप्रीतिकावग्रहो वसतेव्यार्घातो वा भवेत ॥ [भा. ६४३६ ] भिन्नं पि मासकप्पं, करेति तनुगं पि कारणं पप्य । जिनकप्पिया वि एवं एमेव महाविदेहेसु ।
वृ- तत एवमादिकं 'तनुकमपि' सूक्ष्ममपि कारणं प्राप्य मासकल्पं भिन्नमपि कुर्वन्ति, अपूरयित्वा निर्गच्छन्तीत्यर्थः । जिनकल्पिका अपि मध्यमतीर्थकरसत्का एवमेव मासकल्पे पर्युषणाकल्पे च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500