Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1471
________________ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ अस्थिताः प्रतिपत्तव्याः । एवमेव च महाविदेहेषु ये स्थविरकल्पिका जिनकल्पिकाश्च तेऽप्यस्थितकल्पिकाः प्रतिपत्तव्याः ॥ ४२० गतं पर्युषणाकल्पद्वारम् । अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराह[ भा. ६४३७] एवं ठियम्मि मेरं, अट्ठियकप्पे य जो पमादेति । सो वट्टति पासत्ये, ठाणम्मि तगं विवज्जेज्जा ॥ वृ- 'एवम्' अनन्तरोक्तनीत्या या स्थितकल्पेऽस्थितकल्पे च 'मर्यादा' सामाचारी भणिता तां मर्यादां यः 'प्रमादयति' प्रमादेन परिहापयति सः 'पार्श्वस्थे' पार्श्वस्थसत्के स्थाने वर्तते; ततस्तकं विवर्जयेत्, तेन सह दान- ग्रहणादिकं सम्भोगं न कुर्यादिति भावः । कुतः ? इत्यत आह[ भा. ६४३८] पासत्थ संकिलिङ्कं ठाणं जिन वृत्तं थेरेहि य। तारिसं तु गवेसंतो, सो विहारे न सुज्झति ॥ वृ- 'पार्श्वस्थं' पार्श्वस्थसत्कं 'स्थानम्' अपराधपदं 'संक्लिष्टम्' अशुद्धं 'जिनैः' तीर्थकरैः 'स्थविरैश्च' गीतमादिभिः प्रोक्तम्, ततस्ताध्शं स्थानं गवेषयन् 'सः' यथोक्तसाचमाचारीपरिहापयिता विहारे न शुध्यति, नासौ संविग्नविहारीति भावः ॥ [भा. ६४३९] पासत्थ संकिलिडं, ठाणं जिन वृत्तं थेरेहि य । तारिसं तु विवज्रेतो, सो विहारे विसुज्झति ॥ वृ- पार्श्वस्थं स्थानं संक्लिष्टं जिनैः स्थविरैश्च प्रोक्तम्, ततस्ताध्शं स्थानं विवर्जयन् 'सः’ यथोक्तसामाचारीकर्ता विहारे 'विशुध्यति' विशुद्धो भवति ।। यतश्चैवमतः [भा. ६४४० ] जो कप्पठिति एवं सद्दहमाणो करेति सट्टाणे । तारिसं तु गवेसेज्जा, जतो गुणाणं न परिहानी ।। वृ- यः 'एनाम्' अनन्तरोक्तां कल्पस्थितिं श्रद्दधानः स्वस्थाने करोति । स्वस्थानं नामस्थितकल्पेऽनुवर्तमाने स्थितकल्पसामाचारीम् अस्थितकल्पे पुनरस्थितकल्पसामाचारी करोति । 'ताध्शं' संविग्नविहारिणं साधुं 'गवेषयेत्' तेन सहैकत्र सम्भोगं कुर्यात्, 'यतः' यस्माद् 'गुणानां' मूलगुणोत्तरगुणानां परिहाणिर्न भवति ॥ इदमेव व्यक्तीकर्तुमाह [ मा. ६४४१] ठियकप्पम्मि दसविधे, ठवणाकप्पे य दुविहमन्त्रयरे । उत्तरगुणकप्पम्मिय, जो सरिकप्पो स संभोगो ॥ वृ- 'स्थितकल्पे' आचेलक्यादौ दशविधे 'स्थापनाकल्पे च' वक्ष्यमाणे द्विविधान्यतरस्मिन् उत्तरगुणकल्पे च यः 'सद्दक्कल्पः ' तुल्यसामाचारीकः सः 'सम्भोग्यः' सम्भोक्तुमुचितः ॥ अत्र दशविधः स्थितकल्पोऽनन्तरमेवोक्तः । स्थापनाकल्पादिपदानि तु व्याख्यातुकाम आह[ भा. ६४४२ ] ठवणाकप्पो दुविहो, अकप्पठवणा य सेहठवणाय । पढमो अकप्पिएणं, आहारादी न गिण्हावे ॥ - स्थापनाकल द्विविधः - अकल्पस्थापनाकल्पः शैक्षस्थापनाकल्पश्च । तत्र 'अकल्पिकेन' अनधीतपिण्डेषणादिसूत्रार्थेन आहारादिकं 'न ग्राहयेत्' नाऽऽनाययेत्, तेनानीतं न कल्पत इत्यर्थः । एष प्रथमोऽकल्पस्थापनाकल्प उच्यते ॥ [भा. ६४४३] Jain Education International अट्ठारसेव पुरिसे, वीसं इत्थीओ दस नपुंसा य । दिक्खेति जो न एते, सेहट्टवणाए सो कप्पो ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500