Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1467
________________ ४१६ बृहत्कल्प- छेदसूत्रम् - ३-६/२१५ शैक्षः षष्ठः ६ । एते षट्कं प्रतिपत्तव्यं यस्योपस्थापना द्वितीयादेशे भणिता ॥ तृतीयादेशमाह - [भा. ६४१४] दंसणम्मिय वंतम्मि, चरितम्मिय केवले । चियत्तकिच्चे सेहे य, उवट्टप्पा य आहिया ।। कृ-दर्शने 'केवले' निशेषेवान्ते यो वर्तते १ योवाचारित्रे केवलेवान्ते २ पाराञ्चिका ऽनवस्थाप्ययोः अत्रैवान्तर्भावो विवक्षितः, यश्च त्यक्तकृत्यः' षट्कायविराधकः ३ यश्च शैक्षः ४ एतेचत्वारः 'उपस्थाप्याः' उपस्थापनायोग्या आख्याताः ।। अथ तेषांमध्ये क उपस्थापनीयः ? नवा ? इति चिन्तायामिदमाह - [ मा. ६४१५ ] केवलगहणा कसिणं, जति वमती दंसणं चरितं वा । तो तस्स उवडवणा, देसे वंतम्मि भयणा तु ॥ वृ-दर्शन- चारित्रपदयोर्यत् केवलग्रहणं कृतं तत इदं ज्ञाप्यते यदि 'कृत्स्नं' निशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थापना भवति, 'देशे' देशतः पुनर्दर्शने चारित्रे वा वान्ते 'भजना' उपस्थापना भवेद्वा न वा ॥ भजनामेव भावयति [भा. ६४१६ ] एमेव य किंचि पदं, सुयं व असुयं व अप्पदोसेणं । अविकोवितो कहितो, चोदिय आउट्ट सुद्धो तु ॥ वृ- 'एवमेव' अविमृश्य 'किञ्चिद् जीवादिकं सूत्रार्थविषयं वा पदं श्रुतं वाऽश्रुतंवा 'अल्पदोषेण' कदाग्रहाऽभिनिवेशादिदोषाभावेन 'अविकोविदः' अगीतार्थ कस्यापि पुरतोऽन्यथा कथयन् आचार्यादिना 'मा एवं वितथप्ररूपणां कार्षी' इति नोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति ॥ तच्च दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात्, तत्रानाभोगेन वान्ते विधिमाह[भा. ६४१७] अनाभोएण मिच्छतं, सम्मत्तं पुनरागते । तमेव तस्स पच्छित्तं, जं मग्गं पडिवज्जई ॥ वृ- एकः श्राद्धो निह्नवान् साधुवेषधारिणो दृष्ट्वा 'यथोक्तकारिणः साधव एते' इतिबुध्या तेषां सकाशे प्रव्रजितः । स चापरैः साधुभिर्भणितः किमेवं निह्नवानां सकाशे प्रव्रजितः ? । स प्राह-नाहमेनं विशेषं ज्ञातवान् । ततः स मिथ्यादुष्कृतं कृत्वा शुद्धदर्शननिनां समीपे उपसम्पन्नः । एवमनाभोगेन दर्शनं वमित्वा मिथ्यात्वं गत्वा सम्यक्त्वं पुनरागतस्य तदेव प्रायश्चित्तं यदसौ सम्यग् मार्ग प्रतिपद्यते स एव च तस्य व्रतपर्यायः, न भूय उपस्थापना कर्तव्या || आभोगेन वान्ते पुनरयं विधिः-[भा. ६४१८] आभोगेन मिच्छतं, सम्मत्तं पुनरागते । जिन-थेराण आणाए, मूलच्छेज्जं तु कारए ॥ वृ- यः पुनः 'आभोगेन' 'निह्नवा एते' इति जानन्नपि मिथ्यात्वं सङ्कान्त इति शेषः, निह्नवानामन्तिके प्रव्रजित इत्यर्थः, स च सम्यक्त्वमन्येन प्रज्ञापितः सन् 'पुनर्' भूयोऽपि यदि आगतस्ततस्तं 'जिन स्थविराणां' तीर्थकर गणभृतामाज्ञया मूलच्छेद्यं प्रायश्चित्तं कारयेत्, मूलत एवोपस्थापनां तस्य कुर्यादिति भावः ॥ एवं दर्शने देशतो वान्ते उपस्थापनाभजना भाविता । सम्प्रति चारित्रे देशतो वान्ते तामेव भावयति [ मा. ६४१९ ] छण्हं जीवनिकायाणं, अणप्पज्झो तु विराहओ । आलोइय-पडिक्कतो, सुद्धो हवति संजओ ॥ वृषण्णां जीवनिकायानां 'अणप्पज्झो" 'अनात्मवशः क्षिप्तचित्तादिर्यदि विराधको भवति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500