Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ६, मूलं- २१५, [भा. ६३८३ ]
४११
सेसेसु होतऽ पिंडो, जहि दोसा ते विवज्रंति ।।
वृ-प्रथमे भङ्गे राजपिण्डः 'वर्ज्य' परित्यक्तव्यः, ये 'तत्र' राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथापि वर्जनीयः । 'शेषेषु' त्रिषु भङ्गेषु 'अपिण्डः' राजपिण्डो न भवति तथापि येषु दोषा भवन्ति 'तान्' द्वितीयादीनपि भङ्गान् वर्जयन्ति । इयमतर भावना यः सेनापति-मन्त्रिपुरोहित-श्रेष्ठि- सार्थवाहसहितो राज्यं भुङ्गे तस्य पिण्डो वर्जनीयः, अन्यत्र तु भजनेति ॥ गतं 'की शो राजा ?' इति द्वारम् । अथ 'के तस्य भेदाः ? ' इति द्वारं चिन्तयन्नाह -
[भा. ६३८४ ]
असणाईआ चउरो, वत्थे पादे य कंबले चैव । पाउंछणए य तहा, अट्ठविधो रायपिंडो उ ।।
वृ- 'अशनादयः' अशन-पान खादिम स्वादिमरूपा ये चत्वारो भेदाः ४ यच्च वस्त्र ५ पात्रं ६ कम्बल ७ पादप्रोञ्छनकं रजोहरणं ८ एषोऽष्टविधो राजपिण्डः ॥ अथ केतस्य दोषाः ? ' इति द्वारमाहअट्ठवह रायपिंडे, अन्नतरागं तु जो पडिग्गाहे । सो आणा अवत्थं, मिच्छत्त विराधनं पावे ।।
[भा. ६३८५]
वृ- अष्टविधे राजपिण्डे 'अन्यतरत्' अशन्नादिकं यः प्रतिगृह्णाति स साधुराज्ञाभङ्गमनवस्थां मिथ्यात्वं विराधनां च प्राप्नुयात् ।। एते चापरे दोषाः
[भा. ६३८६ ]
ईसर - तलवर - माइंएहि सिट्ठीहि सत्थवाहेहिं । नितेहि अर्तितेहि य, वाघातो होति भिक्खुस्स ।।
वृ- ईश्वर-तलवर-माइम्बिकैः श्रेष्ठिभिः सार्थवाहैश्च निर्गच्छद्भिः 'अतियद्भिश्च' प्रविशद्भिर्भिक्षोर्भिक्षार्थं प्रविष्टस्य व्याघातो भवति ॥ एतदेव व्याचष्टे
[भा. ६३८७ ] ईसर भोइयमाई, तलवरपट्टेण तलवरी होति । बद्धो सेट्ठी, पच्चंत हिवो उ माडंबी ॥
वृ- ईश्वरः ‘भोगिकादिः’ ग्रामस्वामिप्रभृतिक उच्यते । यस्तु परितुष्टनृपतिप्रदत्तेन सौवर्णेन तलवरपट्टेनाङ्कितशिराः स तलवरो भवति । श्रीदेवताध्यासितः पट्टो वेष्टनकमुच्यते, तद् यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः श्रेष्ठी । यस्तु 'प्रत्यन्ताधिपः ' छिन्नमडम्बनायकः स माडम्बिकः । सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः ॥
[भा. ६३८८] जा निंति इंति ता अच्छओ अ सुत्तादि- भिक्खहानी य । इरिया अमंगलं ति य, पेल्लाऽऽहनना इयरहा वा ॥
- एते ईश्वरादयो यावद् निर्गच्छन्ति प्रविशन्ति च तावद् असौ साधुः प्रतीक्षमाण आस्ते, तत एवमासीनस्य सूत्रार्थयोर्भैक्षस्य च परिहाणिर्भवति । अश्व-हस्त्यादिसम्मर्देन चेर्यां शोधयितुं न शक्नोति । अथ शोधयति ततस्तैरभिघातो भवति । कोऽपि निर्गच्छन् प्रविशन् वा तं साधुं विलोक्यामङ्गलमिति मन्यमानस्तेनैवाश्व-हत्यादिना प्रेरणं कशादिना वाऽऽ हननं कुर्यात् । "इतरहा व"त्ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथापि जनसम्पर्दे प्रेरणमाहननं वा यथाभावेन भवेत् ॥ [मा. ६३८९] लोभे एसणघाते, संका तेने नपुंस इत्थी य । इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा ॥
वृ-राजभवनप्रविष्टः 'लोभे' उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात् । 'स्तेनोऽयम्' इत्यादिका च शङ्का राजपुरुषाणां भवेत् । नपुंसकः स्त्रयो वा तत्र निरुद्धेन्द्रियाः साधुमुपसर्गयेयुः तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500