Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३९८
बृहत्कल्प-छेदसूत्रम् -३-६/२१४
भावभेदात् । तत्र नाम-स्थापने सुगमे । द्रव्य-भावपरिमन्यौ प्रतिपादयति[भा.६३१५] करणे अधिकरणम्मि य कारग कम्मे यदव्वपलिमंयो।
एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु॥ वृ-'करणे' साधकतमे 'अधिकरणे' आधारे कारकः-कर्ता तस्मिन् तथा 'कर्मणि च' व्याप्ये द्रव्यतः परिमन्यो भवति । तथाहि-करणे येन मन्थानादिना दध्यादिकंमथ्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधिमथ्यते, कर्तरियः पुरुषः स्त्री वा दधि विलोडयति, कर्मणि तन्मध्यमानंयद् नवनीतादिकंभवति, एष चतुर्विधी द्रव्यपरिमन्थः । एवमेव भावेऽपि' भावविषयः परिमन्थश्चतुर्वपि करणादिषुस्थानेषुभवति। तद्यथा-करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमोमथ्यते, अधिकरणेयस्मिन् आत्मनिसमध्यते, कतरियः साधुः कौत्कुच्यादिभावपरिणतस्तं संयमंमध्नाति, कर्मणि यमध्यमानं संयमादिकमसंयमादितया परिणमते। एष चतुर्विधोऽपि परिमन्थो जीवादनन्यत्वाद् जीव एव मन्तव्यः।।
अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति[भा.६३१६] दव्वम्भि मंथितो खलु, तेनं मंथिज्जए जहा दधियं ।
दधितुल्लो खलु कप्पो, मंथिज्जति कोकुआदीहिं॥ वृ-द्रव्यपरिमन्थोमन्थिकः, मन्थान इत्यर्थः, 'तेन मन्यानेन यथा दधिमथ्यते तथा दधितुल्यः खलु कल्पः' साधुसमाचारः कौकुचिकादिभिःप्रकारैर्मथ्यते, विनाश्यतइत्यर्थः॥तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह[मा.६३१७] कोकुइओ संजमस्स उ, मोहरिए चेव समवयणस्स।
इरियाए चक्खुलोलो, एसणसमिईए तितिनिए। वृ- कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुर्लोलईर्यासमितेः, तिन्तिणित . एषणासमितेः परिमन्थुरिति प्रक्रमादवगम्यते॥ [भा.६३१८] . नासेति मुत्तिमग्गं, लोभेण निदानताए सिद्धिपहं ।
एतेसिंतु पदाणं, पत्तेय परवणं वोच्छं । वृ-लोभेन च मुक्तिमार्गनाशयति, निदानतयातुसिद्धिपथम् । एतेषांपदानांप्रत्येकंप्ररूपणां वक्ष्ये । प्रतिज्ञातमेव करोति[भा.६३१९] ठाणे सरीर भासा, तिविधोपुन कुक्कुओ समासेणं ।
चलणे देहे पत्थर, सविगार कहक्कहे लहुओ॥ [भा.६३२०] आणाइणो य दोसा, विराधना होइ संजमा-ऽऽयाए।
जंते व नट्टिया वा, विराधन मइल्लए सुत्ते। वृ-'स्थाने' स्थानविषयःशरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः। तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णंभ्रमणंकरोति। देहः-शरीरंतद्विषयः कौकुचिकोयः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसतिस भाषाकौकुचिकः। एतेषुत्रिष्वपि प्रत्येकंमासलघु,आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् (स्थान-शरीर] कौकुचिक उच्यते । यस्तु महताशब्देनहमतितस्यमक्षिकादीनां मुखप्रदेशेन संयमविराधना शूलादिरोगप्रकोपेनात्मविराधना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500