SearchBrowseAboutContactDonate
Page Preview
Page 1449
Loading...
Download File
Download File
Page Text
________________ ३९८ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ भावभेदात् । तत्र नाम-स्थापने सुगमे । द्रव्य-भावपरिमन्यौ प्रतिपादयति[भा.६३१५] करणे अधिकरणम्मि य कारग कम्मे यदव्वपलिमंयो। एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु॥ वृ-'करणे' साधकतमे 'अधिकरणे' आधारे कारकः-कर्ता तस्मिन् तथा 'कर्मणि च' व्याप्ये द्रव्यतः परिमन्यो भवति । तथाहि-करणे येन मन्थानादिना दध्यादिकंमथ्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधिमथ्यते, कर्तरियः पुरुषः स्त्री वा दधि विलोडयति, कर्मणि तन्मध्यमानंयद् नवनीतादिकंभवति, एष चतुर्विधी द्रव्यपरिमन्थः । एवमेव भावेऽपि' भावविषयः परिमन्थश्चतुर्वपि करणादिषुस्थानेषुभवति। तद्यथा-करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमोमथ्यते, अधिकरणेयस्मिन् आत्मनिसमध्यते, कतरियः साधुः कौत्कुच्यादिभावपरिणतस्तं संयमंमध्नाति, कर्मणि यमध्यमानं संयमादिकमसंयमादितया परिणमते। एष चतुर्विधोऽपि परिमन्थो जीवादनन्यत्वाद् जीव एव मन्तव्यः।। अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति[भा.६३१६] दव्वम्भि मंथितो खलु, तेनं मंथिज्जए जहा दधियं । दधितुल्लो खलु कप्पो, मंथिज्जति कोकुआदीहिं॥ वृ-द्रव्यपरिमन्थोमन्थिकः, मन्थान इत्यर्थः, 'तेन मन्यानेन यथा दधिमथ्यते तथा दधितुल्यः खलु कल्पः' साधुसमाचारः कौकुचिकादिभिःप्रकारैर्मथ्यते, विनाश्यतइत्यर्थः॥तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह[मा.६३१७] कोकुइओ संजमस्स उ, मोहरिए चेव समवयणस्स। इरियाए चक्खुलोलो, एसणसमिईए तितिनिए। वृ- कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुर्लोलईर्यासमितेः, तिन्तिणित . एषणासमितेः परिमन्थुरिति प्रक्रमादवगम्यते॥ [भा.६३१८] . नासेति मुत्तिमग्गं, लोभेण निदानताए सिद्धिपहं । एतेसिंतु पदाणं, पत्तेय परवणं वोच्छं । वृ-लोभेन च मुक्तिमार्गनाशयति, निदानतयातुसिद्धिपथम् । एतेषांपदानांप्रत्येकंप्ररूपणां वक्ष्ये । प्रतिज्ञातमेव करोति[भा.६३१९] ठाणे सरीर भासा, तिविधोपुन कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहक्कहे लहुओ॥ [भा.६३२०] आणाइणो य दोसा, विराधना होइ संजमा-ऽऽयाए। जंते व नट्टिया वा, विराधन मइल्लए सुत्ते। वृ-'स्थाने' स्थानविषयःशरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः। तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णंभ्रमणंकरोति। देहः-शरीरंतद्विषयः कौकुचिकोयः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसतिस भाषाकौकुचिकः। एतेषुत्रिष्वपि प्रत्येकंमासलघु,आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् (स्थान-शरीर] कौकुचिक उच्यते । यस्तु महताशब्देनहमतितस्यमक्षिकादीनां मुखप्रदेशेन संयमविराधना शूलादिरोगप्रकोपेनात्मविराधना। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy