Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1458
________________ उद्देशक : ६, मूलं - २१५, [भा. ६३६१] तद्दि दीक्षितमपि साधुं वन्दन्ते, कृतिकर्म च यथारालिकं तेऽपि कुर्वन्ति । अत एते चत्वारः कल्पा अवस्थिताः । इमे पुनः षडनवस्थिताः [भा. ६३६२] आचेलकुद्देसिय, सपडिक्कमणे व रायपिंडे य । मासं पज्जोसवणा, छऽप्पेतऽनवट्ठिता कप्पा ।। वृ-आचेलक्यमौद्देशिकं सप्रतिक्रमणो धर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेति षडप्येते कल्पा मध्यमसाधूनां विदेहसाधूनां चानवस्थिताः । तथाहि यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते तदा अचेलाः अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृह्णन्तीति भावः 'औद्देशिकं नाम' साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोरर्थाय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावे न कुर्वन्ति । राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्ति ततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्णे वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति ।। गता सामायिकसंयतकल्पस्थितिः । अथ च्छेदोपस्थापनीयसाधूनां कल्पस्थितिमाह [भा. ६३६३] दसठाणठितो कप्पो, पुरिमस्स य पच्छिमस्स य जिनस्स । एसो धुतरत कप्पो, दसठाणपतिट्ठितो होति ॥ role वृ-दशस्थानस्थितः कल्पः पूर्वस्य च पश्चिस्य च पश्चिमस्य च जिनस्य तीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः । तदेवमेष धुतरजाः कल्पो दशस्थानप्रतिष्ठितो भवति ।। तान्येव दश स्थानानि दर्शयति[ भा. ६३६४] आचेलकुद्देसिय, सिज्जायर रायपिंड कितिकम्मे । वत जेठ पडिक्कम, मासं पज्जोसवणकप्पे | वृ- आचेलकस्यम् १ औद्देशिकं २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ "जेट्ट" त्ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणं ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराह [ भा. ६३६५ ] दुविहो होति अचेलो, संताचेलो असंतचेलो य । तित्थगर असंतचेला, संताचेला भवे सेसा ॥ वृ-द्विविधो भवत्सचेलः -सदद्येलोऽ सदचेलश्च । तत्र तीर्थकरा असदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां चीवराभावात् । 'शेषाः' सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघन्यतोऽपि रजोहरण-मुखवस्त्रिकासम्भवात् ।। आह-यद्येवं ततः कथममी अचेला भण्यन्ते ? उच्यते [भा. ६३६६] सीसावेढियपुत्तं, नदिउत्तरणम्मि नग्गयं बेंति । जुन्नेहि नग्गिया मी, तुर सालिय ! देहि मे पोतिं ।। वृ-जलतीमनभयात् शीर्षे-शिरसि आवेष्टितं पोतं परिधानवस्त्रं येन स शीर्षावेष्टितपोतस्तम्, एवंविधं सचेलमपि 'नद्युत्तरणे' अगाधायाः कस्याश्चिद् नद्या उत्तरणं कुर्वन्तं दृष्टवा नग्नकं ब्रुवते, 'नग्नोऽयम्' इति लोके वक्तारो भवन्तीत्यर्थः । यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनं तन्तुवायं शाटिकानिष्पादनालसं ब्रवीति, यथा- जीर्णैर्वस्त्र परिहितैर्नग्निकाऽहमस्मि ततस्त्वरस्व 'हे शालिक !' तन्तुवाय ! देहि मे 'पोतिकां' शाटिकाम् ॥ अथात्रैवोपनयमाह For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500