Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२१५, [भा. ६३४९]
४०५ कसंयतकल्पस्थिति' समः-राग-द्वेषरहितस्तस्य आयः-लाभो ज्ञानादीनां प्राप्तिरित्यर्थः, समाय एव सामायिक-सर्वसावद्ययोगविरतिरुपम् तत्प्रधाना ये संयताः-साधवस्तेषां कल्पस्थितिः सामायिकसंयतकल्पस्थितः । तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं यत् तत् छेदोपस्थापनीयम्, व्यक्तितो महाव्रतारोपणमित्यर्थः, तप्रधाना ये संयतास्तेषां कल्पस्थिति छेदोपस्थापनीयसंयतकल्पस्थिति। निर्विशमानाः-परिहारविशुद्धिकल्पंवहमानास्तेषांकल्पस्थिति निर्विशमानकल्पस्थिति ३ । निर्विष्कायिका नाम-यैः परिहारविशुद्धिकं तपो व्यूढम, निर्विष्टःआसेवितो विधिक्षितचारित्रलक्षणः कायो यैस्ते निर्विष्टकायिका इतिव्युत्पत्तेः तेषां कल्पस्थितिः निर्विष्टकायिककल्पस्थिति।जिनाः-गच्छनिर्गताःसाधुविशेषास्तेषांकल्पस्थिति जिनकल्पस्थितिः ५ । स्थविरा:-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थिति स्थविरकल्पस्थितिः ६ । 'इति' अध्ययनपरिसमाप्तौ । 'ब्रवीमि' इति तीर्थकर-गणधरोपदेशेन सकलमपि प्रस्तुतशास्त्रक्तंकल्पाऽकल्पविधि भणामि, न पुनः स्वमनीषिकया इति सूत्रसक्षेपार्थः ।। सम्प्रति विस्तरार्थं बिमणिषुर्भाष्यकारः कल्पस्थितिपदे परस्याभिप्रायमाशङ्कय परिहरनाह - [भा.६३५०] आहारो त्ति य ठाणं, जो चिट्ठति सो ठिइत्तिते बुद्धी।
ववहार पडुच्छेवं, ठिइरेव तुनिच्छए ठाणं ।। वृ-सक्रियस्य जीवादिद्रव्यस्यतावदेतावदेव क्रियाद्वयं भवति-स्थानंवा गमनंवा । तत्रस्थानस्य गमनं प्रतिपक्षो भवति, तत्परिणतस्य स्थानाभावात् । एवं स्थितेरपि गति प्रतिपक्षो भवति ।। ततः किम्? इत्याह[मा.६३५२] ठाणस्स होति गमनं, पडिपक्खो तह गती ठिईए उ ।
नय गमनं तु गतिमतो, होति पुढो एवमितरंपि।। वृ-स्थानस्य गमनं प्रतिपक्षोभवतिन स्थिति, स्थितेरपि गति प्रतिपक्षोन स्थानम्, एवं स्थितिस्थानयोरेकत्वम् । तथा 'न च' नैव गमनं गतिमतो द्रव्यात् 'पृथग्' व्यतिरिक्तं भवति, एवम् 'इतरदपि' स्थानं स्थितिमतो द्रव्यादव्यतिरिक्त मन्तव्यम् ॥ इदमेव व्यतिरेकद्वारेण द्रढयति[भा.६३५३] जय गमनं तु गतिमतो, होज पुढो तेन सो न गच्छेज्जा ।
जह गमनातो अना, न गच्छति वसुंधरा कसिणा॥ . वृ-यदि गमनं गतिमतः पुरुषादेः पृथग्भवेत् ततः 'असौ गतिमान् न गच्छेत् । दृष्टान्तमाहयथा गमनात् ‘अन्या' पृथग्भूता 'कृत्स्ना' सम्पूर्णा वसुन्धरा न गच्छति । कृत्स्नाग्रहणं लेषुप्रभृतिकस्तदवयवो गच्छेदपि इति ज्ञापनार्थम् । एवं स्थानेऽपि भावनीयम् ॥
यत एवमतः स्थितमेतत्[भा.६३५४] ठाण-हिइनाणतं, गति-गमनानं च अत्थतो नत्थि।
वंजणनाणत्तं पुन, जहेव वयणस्स वायातो। कृस्थान-स्थित्योर्गति-गमनयोश्रचार्थतोनास्तिनानात्वम्, एकार्थत्वात्; व्यञ्जननानात्वंपुनरस्ति। यथैव वचनस्य वाचश्च परस्परमर्थतो नास्ति भेदः, शब्दतः पुनरस्तीति ॥अथवा नात्र स्थितिशब्दोऽवस्थानवाची किन्तु मर्यादावाचकः । तथा चाह[भा.६३५५] अहवा ज एस कप्पो, पलंबमादि बहुधा समक्खातो।
छट्ठाणा तस्स ठिई, ठिति त्ति मेर ति एगट्ठा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500