Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् -३-६/२१४
तत्र 'किं साधु' किं नाम शोभनम् ? न किञ्चिदित्यर्थः । 'दुर्गतभवं' दरिद्रकुलोत्पत्तिमिच्छत एष एव दृष्टान्त उपनेतव्यो भवति । तथाहि अनर्घ्यरत्नस्थानीयं चारित्रम्, निरुपमा- ऽनन्तानन्दमयमोक्षफलसाधकत्वात्; काचशकलस्थानीयो दुर्गतभवः, तुच्छत्वात् । ततो यश्चारित्रविक्रयेण तत्प्रार्थनं करोति स मन्दभाग्योऽनर्ध्यरत्नं विक्रीय काचशकलं गृह्णातीति मन्तव्यम् ॥ अपि च[ मा. ६३४६ ] संगं अनिच्छमाणो, इह-परलोए य मुच्चति अवरसं । एसेव तस्स संगो, आसंसति तुच्छतं जं तु ॥
૪૦૪
वृ- इहलोकविषयं परलोकविषयंच 'स' मुक्तिपदप्रतिप्रक्षभूतमभिष्वङ्गमनिच्छन्त्रवश्यं 'मुच्यते' कर्मविमुक्तो भवति । कः पुनस्तस्य सङ्गः ? इत्याह-एष एव तस्य सगो यद् मोक्षाख्यविपुलफलदायिना तपसा तुच्छकं फलम् ' आशास्ते' प्रार्थयति ॥
तद् भूयोऽपि निदानस्यैव पर्यायकथनद्वारेण दोषमाह
[ मा. ६३४७] बंधो त्ति नियाणं ति य, आससजोगो य होति एगट्ठा । ते पुन न बोहिहेऊ, बंधावचया भवे बोही ॥
वृ-बन्ध इति वा निदानमिति वा आशंसायोग इति वा एकार्थानि पदानि भवन्ति । 'ते पुनः' बन्धादयः 'न बोधिहेतवः' न ज्ञानाद्यवाप्तिकारणं भवन्ति, किन्तु ये 'बन्धापचयाः' कारणे कार्योपचारात् कर्मबन्धस्यापचयहेतवोऽनिदानतादयस्तेभ्यो बोधिर्भवति ।। आह-यदि नाम साधवो भवं नेच्छन्ति ततः कथं देवलोकेषूत्पद्यन्ते ? उच्यते
[भा. ६३४८] नेच्छंति भवं समणा, सो पुन तेसिं भवो इमेहिं तु । पुव्वतव-संजमेहिं, कम्मं तं चावि संगेणं ॥
वृ- 'श्रमणाः’ साधवो नेच्छन्त्येव भवं परं स पुनः 'भवः' देवत्वरुपस्तेषाममीभि कारणैर्भवत् । तद्यथा- पूर्वं वीतरागावस्थापेक्षया प्राचीनावस्थाभावि यत् तपस्तेन, सरागावस्थाभाविना तपसा साधवो देवलोकेषृत्पद्यन्ते इत्यर्थः, एवं पूर्वसंयमेन सरागेण सामायिकादिचारित्रेण साधूनां देवत्वं भवति । कुतः ? इत्याह- "कम्मं" ति पूर्वतपः संयमावस्थायां हि देवायुर्देवगतिप्रभृतिकं कर्म बध्यते ततो भवति देवेषूपपातः । एतदपि कर्म केन हेतुना बध्यते ? इति चेद् अत आह-तदपि कर्म 'सङ्गेन' संज्चलनक्रोधादिरूपेण बध्यते ॥
मू. (२१५) छव्विहा कप्पट्ठिती पन्नत्ता, तं जहा- सामाइयसंजयकम्पट्ठिती १ छेतोवट्ठावणियसंजयकम्पट्ठिती २ निव्विसमाणकप्पट्ठिती ३ निव्विट्टकाइयकप्पट्ठिती ४ जिनकप्पट्ठिती ५ थेरकप्पट्ठिति ६ त्ति बेमि ॥
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[मा. ६३४९ ] पलिमंथविप्पमुक्कस्स होति कप्पो अवट्ठितो नियमा ।
कप्पे य अवद्वाणं, वदंति कप्पट्ठितिं थेरा ॥
वृ- अनन्तरसूत्रोक्तौः परिमन्थैर्विप्रमुक्तस्य साधोः 'अवस्थितः' सर्वकालभावी कल्पो नियमाद् भवति । यञ्च कल्पेऽवस्थानं तामेव कल्पस्थितिं 'स्थविराः' श्री गौतमादयः सूरयो वदन्ति । अतः परिमन्यसूत्रानन्तरं कल्पस्थितिसूत्रमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'षड्विधा' षटप्रकारा कल्पे-कल्पशास्त्रक्तसाधुसमाचारे स्थिति अवस्थानं कल्पस्थिति कल्पस्य वा स्थितिमर्यादा कल्पस्थिति 'प्रज्ञप्ता' तीर्थकर - गणधरैः प्ररुपिता । 'तद्यथा' इति उपन्यासार्थः । 'सामायि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500