Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1450
________________ ३९९ उद्देशक : ६, मूलं-२१४, [भा. ६३२०] "मएलए सुत्ति"त्ति मृतदृष्टान्तः सुप्तदृष्टान्तश्चात्रहास्यदोषदर्शनायभवति, स चोत्तरत्र दर्शयिष्यते।। अथैतदेव नियुक्तिगाथाद्वय विभावयिषुः स्थानकौकुचिकं व्याचष्टे[भा.६३२१] आवडइखंभकुडे, अभिक्खणं भमति जंतए चेव । कमफंदण आउंटण, न यावि बद्धासनो ठाणे॥ वृ-इहोपविष्ट ऊर्ध्वस्थितो वास्तम्भे कुड्ये वा य आपतति, यन्त्रकमिव वाऽभीक्ष्णं भ्रमति, क्रमस्य-पादस्य स्पन्दनमाकुञ्चनं वा करोति, न च नैव ‘बद्धासनः' निश्चलासनस्तिष्ठति, एष स्थानकौत्कुचिकः । अत्रामी दोषाः[भा.६३२२] संचारोवतिगादी, संजमे आयाऽहि-विच्चुगादीया । दुब्बद्ध कुहिय मूले, चडफडते य दोसा तु॥ दृ- सञ्चारकाः-कुड्यादौ सञ्चरणशीला ये उवइकादयः-उद्देहिका-मन्थुकीटिकाप्रभृतयो जीवास्तेषां या विराधना सा संयमविषया मन्तव्या। आत्मविराधनायामहि-वृश्चिकादयस्तत्रोपद्रवकारिणो भवेयुः, यदि वा यत्र स्तम्भादौ स आपतति तद् दुर्बद्धं मूले वा कुथितं भवेत् ततस्तस्य पतने परितापनादिका ग्लानारोपणा, “चडफडते य"त्ति अभीक्ष्णमितस्ततो भ्राम्यतः सन्धिर्विसन्धीभवेदित्यादयोबहवोदोषाः। एवमुत्तरत्रापिदोषामन्तव्याः॥अथ शरीरकौकुचिकमाह[भा.६३२३] कर-गोफण-धनु-पादादिएहइं उच्छुभति पत्थरादीए। भमुगा-दाढिग-थण-पुतविकंपणं नट्टवाइत्तं ॥ वृ-कर-गोफणा-धनुः-पादादिभि प्रस्तरादीन् य उत्-प्राबल्येन क्षिपति स शरीरकौकुचिकः । भ्रू-दाढिका-स्तन-पुतानां विकम्पनं-विविधम्-अनेकप्रकारैः कम्पनं यत् करोति तद् नृत्यपातित्वमुच्यते, नर्तकीत्वमित्यर्थः । एतेन “नट्टियाव"त्ति पदं व्याख्यातं प्रतिप्तव्यम् ॥ गतः शरीरकौकुचिकः । अथ भाषाकौकुचिकमाह[भा.६३२४] छेलिय मुहवाइत्ते, जंपति य तहा जहा परो हसति । कुणइ य रुए बहुविधे, वग्घाडिय-देसभासाए॥ वृ-यः सेण्टितं मुखवादित्रं वा करोति, तथा वा वचनं जल्पति यथा परो हसति, बहुविधानि वा मयूर-हंस-कोकिलादीनां जीवानां रुतानि करोति, वग्घाडिकाः-उद्धट्टककारिणीः देशभाषा वा-मालव-महाराष्ट्रादिदेशप्रसिद्धास्ताद्दशीर्भाषा भाषते याभि सर्वेषामपि हास्यमुपजायते, एष भाषाकौकुचिकः॥अस्य दोषानाह- - [भा.६३२५] मच्छिगमाइपवेसो, असंपुडं चेव सेटिदिटुंतो। दंडियघतणो हासण, तेइच्छिय तत्तफालेणं ॥ वृ-तदीयभाषणदोषेण ये मुखं विस्फाल्य हसन्ति तेषां मुखे मक्षिकादयः प्राणिनः प्रविशेयुः, प्रविष्टाश्च ते यत् परितापनादिकंप्राप्नुवन्ति तनिष्पन्नं तस्य प्रायश्चित्तम्।हसतश्च मुखमसम्पुटमेव भवेद्, न भूयो मिलेदित्यर्थः। तथा चात्र श्रेष्ठिध्ष्टान्तः-कश्चिद् 'दण्डिकः राजा, तस्य “घयणो" भण्डः । तेन राजसभायामीशं किमपि 'हासन' हास्यकारि वचनं भणितं येन प्रभूतजनस्य हास्यमायातम्।तत्र श्रेष्ठिनोमहताशब्देन हसतोमुखंतथैव स्थितंन सम्पुटीभवति।वास्तव्यवैद्यानां दर्शितो नैकेनापि प्रगुणीकर्तुंपारितः। नवरंप्राघुणकेनैकेन चैकित्सिकेन लोहमयः फालः तप्तःअग्निवर्ण कृत्वा मुखे ढौकितः, ततस्तदीयेन भयेन श्रेष्ठिनो मुखं सम्पुटं जातम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500