Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२१३, [भा. ६२८५] मां ग्लानां सती प्रतिचरिष्यति' इतिनिमित्तं व्यक्षरिका दीक्षिता भवति, सा च पश्चाद् दायकैः प्रतिगृह्येत तस्या वोत्तमार्थप्रतिपन्नाया मूलं 'आयान्ती' आगच्छन्ती बोधिकादिना स्तेनेन यदि ह्रियतेअतस्तांप्रति अर्थजातसूत्रावकाशः॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-साचप्राग्वत्।। साम्प्रतमर्थजातशब्दव्युत्पत्तिप्रतिपादनार्थमाह[भा.६२८६] अटेण जीए कनं, संजातं एस अट्ठजातातु।
तंपुन संजमभावा, चालिज्जंती समवलंबे ॥ -'अर्थेन' अर्थितया सआतं कार्य यया यद्वा अर्थेन-द्रव्येण जातम्-उत्पत्रं कार्यं यस्याः सा अर्थजाता, गमकत्वादेवमपि समासः । उपलक्षणमेतत, तेनैवमपिव्युत्पत्ति कर्तव्या-अर्थ-प्रयोजनं जातोऽस्याइत्यर्थःजाता! कथंपुनरस्या अवलम्बनं क्रियते? इत्याह- तांपुनः'प्रथमव्युत्पत्तिसूचितां संयमभावात् चाल्यमानां द्वितीय-तृतीयव्युत्पत्तिपक्षेतु द्रव्याभावेन प्रयोजनानिष्पत्त्यावासीदन्ती 'समवलम्बेत' साहाय्यकरणेन सम्यग्धारयेत्, उपलक्षणत्वाद् गृह्णीयादपि ॥अथ नियुक्तिकारो येषु स्थानेषु संयमस्थिताया अप्यर्थजातमुत्पद्यते तानि दर्शयितुमाह[भा.६२८७] सेवगभञ्जा ओमे, आवन्न अनत्त बोहिये तेने ।
एतेहि अट्ठजातं, उप्पज्जति संजमठिताए॥ वृ-'सेवकभार्यायां' सेवकभार्याविषयम्, एवम् 'अवमें दुर्भिक्षे, “आवने"तिदासत्वप्राप्तायाम, "अनत्ते"ति ऋणार्तायां परं विदेशगमनादुत्तमर्णेनानाप्तायाम, तथा 'बोधिका' अनार्या म्लेच्छाः 'स्तेनाः' आर्यजनपदजाता अपि शरीरापहारिणस्तैरपहरणेच, एतैः कारणैरर्थतं संयमस्थिताया अपि उत्पद्यते । एष नियुक्तिगाथासङ्केपार्थः ॥ साम्प्रतमेनामेव विवरीषुः सेवकभार्याद्वारमाह[भा.६२८८] पियविप्पयोगदुहिया, निक्खंता सोय आगतो पच्छा।
अगिलाणिं च गिलाणिं. जीवियकिच्छं विसजेति॥ वृ-कोऽपि राजादीनां सेवकः, तेन राजसेवाव्यग्रेणात्मीया भार्या परिष्ठापिता, ततः सा प्रियविप्रयोगदुःखिता 'निष्क्रान्ता तथारूपाणां स्थविराणामन्तिके प्रव्रजिता, सच पुरुषः पश्चात् तयाऽर्थी जातस्ततस्तस्याः सकाशमागतः पुनरपि तां मार्गयति ततः को विधि ? इत्याहअग्लानामपि तां 'ग्लानां ग्लानवेषां कुर्वन्ति, विरेचनादीनि च तस्याः क्रियन्ते, ततोऽसौ "जीवितकृच्छ्रां' 'कृच्छ्रेणेयं जीवति' इतिबुद्धया विसर्जयति ॥ अत्रैव द्वितीयमुदाहरणमाह[भा.६२८९] परिग्गहियागणियाऽविसज्जिया सामिणा विनिखंता ।
बहुगं मे उवउत्तं, जति दिज्जति तो विसजेमि॥ वृ-न विद्यते परिग्रहः कस्यापि यस्याः साऽपरिग्रहा, सा चासौ गणिका चापरिग्रहगणिका, सा येन सममुषितवती स देशान्तरं गतः, ततस्तेन अविसर्जिता सती 'विनिष्कान्ता' प्रव्रजिता । अन्यदाच स स्वामी समागतो भणति-बहुकं 'मे' मदीयं द्रव्यमनया उपयुक्तम् उपयोगनीतम्, भुक्तमित्यर्थः, तद् यदि दीयते ततो विसृजामि ।। एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाह[भा.६२९०] सरभेद वनभेदं, अंतद्धाणं विरेयणं वा वि ।
वरधनुगपुस्सभूती, गुलिया सुहुमे य झाणम्मि।। वृ-गुटिकाप्रयोगतस्तस्या-स्वरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति यथासंतान प्रत्यभिजानाति। यदिवा ग्रामान्तरादिप्रेषणेन 'अन्तर्धानं' व्यवधानं क्रियते।अथवा तथाविधौषधप्रयोगतोविरेचनं
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org

Page Navigation
1 ... 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500