Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1438
________________ उद्देशक : ६, मूलं- २०८, [ भा. ६२६६ ] ३८७ विरागो भवति । अथासौ नटः स्वभावत एव रूपवान्-अतिशायिना उद्भटरूपेण युक्तस्ततस्तस्य भक्तं मदनफलमिश्रादिकं तद् दीयते येन भुक्तेन तस्याः पुरतः 'छर्दयति' उद्वमति, उद्वमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सा तं दृष्ट्वा विरज्यत इति ।। गुज्झंगम्मि उ वियडं, पञ्जावेऊण खरगमादीणं । तद्दायणे विरागो तीसे तु हवेज दवणं ॥ [ भा. ६२६७ ] 41 वृ-यदि पुनः कस्या अपि गुह्याङ्गविषय उन्मादो भवति न रूप-लावण्याद्यपेक्षः ततः 'खरकादीनां' द्व्यक्षरकप्रभृतीनां 'विकटं' मद्यं पाययित्वा प्रसुप्तीकृतानां पूतिमद्योद्गालखरण्टितसर्वशरीराणामत एव मक्षिकाभिणिभिणायमानानां तद्दायणे "त्ति तस्य गुह्याङ्गस्य मद्योद्गालादिना बीभत्सीभूतस्य दर्शना क्रियते । तच्च दृष्ट्वा तस्या आर्यिकाया विरागो भवेत् ततः प्रगुणीभवति ॥ मू. (२०९) उवसग्गपत्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कमइ ॥ वृ- अस्य सम्बन्धमाह [ भा. ६२६८ ] मोहेन पित्ततो वा, आतासंवेतिओ समक्खाओ । एसो उ उवसग्गो, अयं तु अन्नो परसमुत्थो ॥ वृ'मोहेन' मोहनीयोदयेनेत्यर्थः 'पित्ततो वा' पित्तोदयेन य उन्मत्तः सः 'आत्मसंवेदिकः ' आत्मनैवात्मनो दुःखोत्पादकः समाख्यातः, यच्चात्मनैवात्मदुः खोत्पादनमेष आत्मसंवेदनीय उपसर्गः । ततः पूर्वमात्मसंवेदनीय उपसर्ग उक्तः । तत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यत इति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह[भा. ६२६९] तिविहे य उवसग्गे, दिव्वे मानुस्सए तिरिक्खे य । दिव्वे य पुव्वभणिए, मानुस्से आभिओग्गे य ॥ वृ-त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथा दैवो मानुष्यकस्तैरश्चश्च । तत्र 'दैवः' देवकृतः 'पूर्वम्' अनन्तरसूत्रस्याधस्ताद् भणितः, 'मानुष्यः पुनः' मनुष्यकृतः 'आभियोग्यः' विद्याद्यभियोगजनितस्तावद् भण्यते ॥ [भा. ६२७०] विज्जाए मंतेन व, चुत्रेण वजोतिया अणप्पवसा । अनुसासणा लिहावण, खमए मधुरा तिरिक्खाती ॥ वृ- विद्यया वा मन्त्रेण वा चूर्णेन वा 'योजिता' सम्बन्धिता सती काचिदनात्मवशा भवेत् तत्र 'अनुशासना' इति येन रूपलुब्धेन विद्यादि प्रयोजितं तस्यानुशिष्टि क्रियते, यथा- एषा तपस्विनी महासती, न वर्तते तव तां प्रति ईशं कर्तुम्, एवंकरणे हि प्रभूततरपापोपचयसम्भव इत्यादि । अथैवमनुशिष्टोऽपि न निवर्तते तर्हि तस्य तां प्रतिविद्यया विद्वेषणमुत्पाद्यते । अथ नास्ति ताशी प्रतिविद्याततः " लिहावण'' त्ति तस्य सागारिकं विद्याप्रयोगतस्तस्याः पुरत आलेखाप्यते येन सा तद् दृष्ट्वा 'तस्य सागारिकमिदमिति बीभत्सम्' इति जानाना विरागमुपपद्यते । “खमए महुरा” इति मथुरायां श्रमणीप्रभृतीनां बोधिकस्तेनकृत उपसर्गोऽभवत् तं क्षपको निवारितवान्, एषोऽपि मानुष उपसर्गः । तैरश्चमाह-“तिरिक्खाइ "त्ति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणीनामुपसर्गान् कुर्वन्ति ते यथाशक्ति निराकर्तव्याः । साम्प्रतमेनामेव गाथां विवरीषुराह [भा. ६२७१] विज्जादऽभिओगो पुन, एसो मानुस्सओ य दिव्वो य । तं पुन जाणंति कहं, जति नामं गेण्हए तस्स ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500