Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३८६
बृहत्कल्प-छेदसूत्रम् -३-६/२०७ वृ-तस्या एवं भूतरवावेशन' भूतरवैः-भूतप्रयुक्तासमञ्जसप्रलापैः आवेशनं-यक्षावेशनं मत्वा भूतचिकित्सा कर्तव्या कथम्? इत्याह-'तस्य' भूतस्य नीचमुत्तमंच भावं ज्ञात्वा । कथं ज्ञात्वा? इत्याह-'स्वयंवा कायोत्सर्गेण देवतामाकम्प्यतद्वचनतःसम्यकपरिज्ञाय,अपिशब्दाःअन्यस्माद्वा मान्त्रिकादेः सकाशाद् ज्ञात्वा । तस्याः क्रिया विधेया, यथा पूर्व क्षिप्तचित्ताया उक्ता । इह यक्षाविष्टा किलोन्मादप्राप्ता भवति ततो यक्षाविष्टासूत्रानन्तरमुन्मादप्राप्तासूत्रमाह
मू. (२०८) उम्मायपत्तिं निग्गंथिं निग्गंथे गिण्हमाणे वा नातिक्कमइ ।। वृ-अस्य व्याख्या प्राग्वत् ।। अथोन्मादप्ररूपणार्थं भाष्यकारः प्राह[भा.६२६३] उम्मातो खलु दुविधो, जक्खाएसो य मोहनिञ्जोय।
जक्खाएसो वुत्तो, मोहेन इमं तु वोच्छामि ।। वृ-उन्मादः 'खलु' निश्चितं द्विविधः' द्विप्रकारः । तद्यथा-यक्षावेशहेतुको यक्षावेशः, कार्ये कारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । चशब्दौ परस्परसमुच्चयार्थी स्वगतानेकभेदसंसूचकौ वा । तत्र यः 'यक्षावेशः' यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तः । यस्तु 'मोहेन' मोहनीयोदयेन; मोहनीयं नाम-येनात्मा मुह्यति, तच्च ज्ञानावरणं मोहनीयं वा द्रष्टव्यम्, द्वाभ्यामप्यातमनो विपर्यासापादनात्, तेनोत्तरत्र “अहव पित्तमुच्छाए" इत्याधुच्यमानं न विरोधमाक; "इमो"त्ति अयम्-अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि। प्रतिज्ञातं निर्वाहयति[भा.६२६४] सवंगंदणं, उम्मातो अहव पित्तमुच्छाए।
तद्दायणा निवाते, पित्तम्मि य सक्करादीनि । पृ-रूपं च-नटदिराकृति अझं च-गुह्याङ्गं रूपाङ्गं तद् दृष्टवा कस्या अप्युन्मादो भवेत् । अथवा "पित्तमूर्छया' पित्तोद्रेकेण उपलक्षणत्वाद् वातोद्रेकवशतो वा स्यादुन्मादः। तत्र रूपाङ्गं हटवा यस्याउन्मादः सातस्तस्यातस्य-रूपाङ्गस्य विरूपावस्थां प्राप्तस्यदर्शना कर्तव्या। यातुवातेनोन्मादं प्राप्ता सा निवाते स्थापनीया । उपलक्षणमिदम्, तेन तैलादिना शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते। पित्ते पित्तवशादुन्मत्तीभूतायाः शर्करा-क्षीरादीनि दातव्यानि ॥ कथं पुनरसौ रूपाङ्गदर्शनेनोन्मादं गच्छेत् ? इत्याह[भा.६२६५] दण नडंकाई, उत्तरवेउव्वितंमतणखेत्ता।
तेनेव य रूवेणं, उडम्मि कयम्मि निवित्रा ।। वृ- काचिदल्पसत्त्वा संयती नटं दृष्ट्वा, किंविशिष्टम् ? इत्याह-'उत्तरवैकुर्विकम्' उत्तरकालभाविवस्त्र-ऽऽभरणादिविचित्रकृत्रिमविभूषाशोभितम्, ततः काचिद् ‘मदनक्षिप्ता' उन्मादप्राप्ता भवेत्तत्रेयं यतना-उत्तरवैकुर्विकापसारणेनतेनैव स्वाभाविकेनरूपेणसनटस्तस्या निर्ग्रन्थ्यादयते ।अथासौ नटःस्वभावतोऽपि सुरूपस्ततोऽसौ ऊर्ध्व-वमनंकुर्वन्तस्या दर्शाते, ततः तस्मिन्नूचे कृते सति काचिदल्पकर्मा निर्वित्रा भवति, तद्विषयं विरागंगच्छतीत्यर्थः। [भा.६२६६] पत्रवितो उ दुवो, उम्मंडिजति अतीए पुरतो तु।
रूववतो पुन भत्तं, तं दिज्जति जेन छड्डेति ॥ वृ-अन्यच्च-यदि नटः स्वरूपतो दुरूपो भवतिततः स पूर्व प्रज्ञाप्यते, प्रज्ञापितश्च सन् 'तस्याः' उन्मादप्राप्तायाः पुरतः 'उन्मण्ड्यते' यत् तस्य मण्डनं तत्सर्वमपनीयते ततो विरूपरूपदर्शनतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500