________________
उद्देशक : ६, मूलं- २०८, [ भा. ६२६६ ]
३८७
विरागो भवति । अथासौ नटः स्वभावत एव रूपवान्-अतिशायिना उद्भटरूपेण युक्तस्ततस्तस्य भक्तं मदनफलमिश्रादिकं तद् दीयते येन भुक्तेन तस्याः पुरतः 'छर्दयति' उद्वमति, उद्वमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सा तं दृष्ट्वा विरज्यत इति ।। गुज्झंगम्मि उ वियडं, पञ्जावेऊण खरगमादीणं । तद्दायणे विरागो तीसे तु हवेज दवणं ॥
[ भा. ६२६७ ]
41
वृ-यदि पुनः कस्या अपि गुह्याङ्गविषय उन्मादो भवति न रूप-लावण्याद्यपेक्षः ततः 'खरकादीनां' द्व्यक्षरकप्रभृतीनां 'विकटं' मद्यं पाययित्वा प्रसुप्तीकृतानां पूतिमद्योद्गालखरण्टितसर्वशरीराणामत एव मक्षिकाभिणिभिणायमानानां तद्दायणे "त्ति तस्य गुह्याङ्गस्य मद्योद्गालादिना बीभत्सीभूतस्य दर्शना क्रियते । तच्च दृष्ट्वा तस्या आर्यिकाया विरागो भवेत् ततः प्रगुणीभवति ॥ मू. (२०९) उवसग्गपत्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कमइ ॥
वृ- अस्य सम्बन्धमाह
[ भा. ६२६८ ] मोहेन पित्ततो वा, आतासंवेतिओ समक्खाओ । एसो उ उवसग्गो, अयं तु अन्नो परसमुत्थो ॥
वृ'मोहेन' मोहनीयोदयेनेत्यर्थः 'पित्ततो वा' पित्तोदयेन य उन्मत्तः सः 'आत्मसंवेदिकः ' आत्मनैवात्मनो दुःखोत्पादकः समाख्यातः, यच्चात्मनैवात्मदुः खोत्पादनमेष आत्मसंवेदनीय उपसर्गः । ततः पूर्वमात्मसंवेदनीय उपसर्ग उक्तः । तत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यत इति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह[भा. ६२६९] तिविहे य उवसग्गे, दिव्वे मानुस्सए तिरिक्खे य ।
दिव्वे य पुव्वभणिए, मानुस्से आभिओग्गे य ॥
वृ-त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथा दैवो मानुष्यकस्तैरश्चश्च । तत्र 'दैवः' देवकृतः 'पूर्वम्' अनन्तरसूत्रस्याधस्ताद् भणितः, 'मानुष्यः पुनः' मनुष्यकृतः 'आभियोग्यः' विद्याद्यभियोगजनितस्तावद् भण्यते ॥
[भा. ६२७०] विज्जाए मंतेन व, चुत्रेण वजोतिया अणप्पवसा । अनुसासणा लिहावण, खमए मधुरा तिरिक्खाती ॥
वृ- विद्यया वा मन्त्रेण वा चूर्णेन वा 'योजिता' सम्बन्धिता सती काचिदनात्मवशा भवेत् तत्र 'अनुशासना' इति येन रूपलुब्धेन विद्यादि प्रयोजितं तस्यानुशिष्टि क्रियते, यथा- एषा तपस्विनी महासती, न वर्तते तव तां प्रति ईशं कर्तुम्, एवंकरणे हि प्रभूततरपापोपचयसम्भव इत्यादि । अथैवमनुशिष्टोऽपि न निवर्तते तर्हि तस्य तां प्रतिविद्यया विद्वेषणमुत्पाद्यते । अथ नास्ति ताशी प्रतिविद्याततः " लिहावण'' त्ति तस्य सागारिकं विद्याप्रयोगतस्तस्याः पुरत आलेखाप्यते येन सा तद् दृष्ट्वा 'तस्य सागारिकमिदमिति बीभत्सम्' इति जानाना विरागमुपपद्यते । “खमए महुरा” इति मथुरायां श्रमणीप्रभृतीनां बोधिकस्तेनकृत उपसर्गोऽभवत् तं क्षपको निवारितवान्, एषोऽपि मानुष उपसर्गः । तैरश्चमाह-“तिरिक्खाइ "त्ति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणीनामुपसर्गान् कुर्वन्ति ते यथाशक्ति निराकर्तव्याः । साम्प्रतमेनामेव गाथां विवरीषुराह
[भा. ६२७१] विज्जादऽभिओगो पुन, एसो मानुस्सओ य दिव्वो य । तं पुन जाणंति कहं, जति नामं गेण्हए तस्स ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org