________________
३८८
बृहत्कल्प-छेदसूत्रम् - ३-६ / २०९
तद्यथा
वृ- विद्यादिभिः 'अभियोगः' अभियुज्यमानता । एष पुनः 'द्विविधः' द्विप्रकारः, मानुषिको दैवश्च । तत्र मनुष्येण कृतो मानुषिकः । देवस्यायं तेन कृतत्वाद् दैवः । तत्र देवकृतो मनुष्यकृतो वा विद्यादिभिरभियोग एष एव यत् तस्मिन् दूरस्थितेऽपि तव्यभावात् सा तथारूपा उन्मत्ता जायते । अथ 'तं' विद्याद्याभियोगं दैवं मानुषिकं वा कतं जानन्ति ? | सूरिराह तयोर्देवमानुषयोर्मध्ये यस्य नाम साऽभियोजिता गृह्णाति तत्कृतः स विद्याद्यभियोगो ज्ञेयः ॥
साम्प्रतं "अनुसासणा लिहावण" इत्येतद् व्याख्यानयति
[भा. ६२७२ ] अनुसासियम्मि अठिए, विद्देषं देति तह वि य अठते । जक्खीए कोवीणं, तीसे पुरओ लिहावेंति ।।
वृ- येन पुरुषेण विद्यादि अभियोजितं तस्यानुशासना क्रियते । अनुशासितेऽप्यस्थिते विद्याप्रयोगतस्तां विवक्षितां साध्वीं प्रति तस्य विद्याद्यभियोक्तुर्विद्वेथषं 'ददति' उत्पादयन्ति वृषभाः । तथापि च तस्मिन् अतिष्ठति 'यक्ष्या' शुन्या तदीयं कौपीनं तस्याः पुरतो विद्याप्रयोगतो हयन्ति येन सा तद् ध्ट्वा तस्येदं सागारिकमिति जानाना विरज्यते ॥ सम्प्रति प्रतिविद्याप्रयोगे ६ढादरताख्यापनार्थमाह
[भा. ६२७३] विसस्स विसमेवेह, ओसहं अग्गिमग्गिणो । मंतस्स पडिमंतो उ, दुजनस्स विवज्जणं ॥
यृ- विषस्यौषधं विषमेव, अन्यथा विषानिवृत्तेः । एवमग्नेर्भूतादिप्रयुक्तस्यैौषधमग्नि । मन्त्रस्य प्रतिमन्त्रः । दुर्जनस्यौषधं 'विवर्जनं' ग्राम-नगरपरित्यागेन परित्यागः । ततो विद्याद्यभियोगे साधु-साध्वीरक्षणाथ प्रतिविद्यादि प्रयोक्तव्यमिति ॥
[भा. ६२७४] जइ पु होज गिलाणी, निरुममाणी उ तो से तेइच्छं । संवरियमसंवरिया, उवालभंते निसिं वसभा ॥
वृ-यदि पुनर्विद्याद्यभियोजिता तदभिमुखं गच्छन्ती निरुध्यमाना ग्लाना भवति ततः “से” 'तस्याः' साध्व्याश्चिकित्सां 'संवृताः' केनाप्यलक्ष्यमाणाः कुर्वन्ति । तथा 'असंवृताः' येन विद्याद्यभियोजितं तस्य प्रत्यक्षीभूता वृषभाः 'निशि' रात्रौ तं उपालभन्ते भेषयन्ति पिट्टयन्ति च तावद्यावद् असौ तां मुञ्चतीति । "खमए महुर' त्ति अस्य व्याख्यानमाह
[भा. ६२७५] धूममह सहिसमणी, बोहिय हरणं तु निवसुताऽऽतावे । मज्झेण य अक्कंदे, कयम्मि जुद्धेण मोएति ॥
वृ-महुरानयरीए थूभो देवनिम्मितो । तस्स महिमानिमित्तं सड्डीतो समणीहिं समं निग्गयातो । रायपुत्तो य तत्थ अदूरे आयावंतो चिट्ठइ । ताओ सड्डी- समणीओ बोहिएहिं गहियाओ तेनं तेनं आनियाओ। ताहिं तं साहुं ददूणं अक्कंदो कओ । तओ रायपुत्तेण साहुणा जुद्धं दाऊण मोइयाओ! अक्षरगमनिका त्वियम् स्तूपस्य 'महे' महोत्सवे श्राद्धिकाः श्रमणीभि सह निर्गताः । तासां 'बोधिकैः' चौरैर्हरणम् । नृपसुतश्च तत्रादूरे आतापयति । बौधिकैश्च तास्तस्य मध्येन नीयन्ते । ताभिश्च तं ष्टवाऽऽक्रन्दे कृते स युद्धेन तेभ्यस्ता मोचयति ।। उक्तो मानुषिक उपसर्ग । सम्प्रति तैरश्चमाह[ भा. ६२७६ ] गामेनाऽऽरण्णे व अभिभूतं संजतिं तु तिरिगेणं ।
थर्द्ध पकंपियं वा, रक्खेज अरक्खणे गुरुगा ||
- ग्राम्येणाऽऽरण्येन वा तिरश्चाऽभिभूतां संयतीं यदि वा 'स्तब्धां' तद्भयात् स्तम्भीभूतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org