________________
उद्देशक : ६, मूलं-२०९, मा. ६२७६]
३८९ 'प्रकम्पितां वा' तद्भयप्रकम्पमानशरीरां रक्षेत् । यदि पुनर्न रक्षति सत्यपि बले ततोऽरक्षणे प्रायश्चित्तं 'गुरुकाः' चत्वारो गुरुका मासाः ॥
मू. (२१०) साहिगरणं निग्गथि निग्गंथे गिण्हमाणे वा २ नातिकमइ । वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.६२७७] अभिभवमाणो समणिं, परिग्गहो वा से वारिते कलहो ।
किं वा सति सत्तीए, होइ सपखे उविक्खाए। वृ-'श्रमणी' साध्वीमभिभवन् गृहस्थो यदि वा "से" 'तस्य' गृहस्थस्य परिग्रहः' परिजनः, स चाऽभिभवन वारितः कलहं श्रमण्या सार्द्धं कुर्यात् ततो य उपशामनालब्धिमान् साधुस्तेन कलह उपशमयितव्यः, न पुनरुपेक्षा विधेया । कुतः? इत्याह-
किंवा सत्यां शक्तौ 'स्वपक्षे' स्वपक्षस्योपेक्षया? नैवकिञ्चिदिति भावः केवलं स्वशक्तिनष्फल्यमुपेक्षानिमित्तप्रायश्चित्तापत्तिश्च भवति, तस्मादवश्यं स्वशक्ति परिस्फोरणीया। एतप्रदर्शनार्थमधिकृतसूत्रमारभ्यते ॥
अस्य व्याख्या प्राग्वत ||अत्र भाष्यम[भा.६२७८] उप्पन्ने अहिगरणे, ओसमणं दुविहऽतिक्कमंदिस्स।
अनुसासण भेस निरंभणा य जो तीए पडिपक्खो॥ वृ-संयत्या गृहस्थेन सममधिकरणे उत्पन्ने द्विविधमतिक्रमहटवा तस्याधिकरणस्यव्यवशमनं कर्तव्यम् । किमुक्तं भवति?-स गृहस्थोऽनुपशान्तः सन् तस्याः संयत्याः संयमभेदं जीवितभेदं चेति द्विविधमतिक्रमं कुर्यात् तत उपशमयितव्यमधिकरणम् । कथम् ? इत्याह-यः तस्याः' संयत्याः 'प्रतिपक्षः' गृहस्थस्तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यम्, तथाऽप्यतिष्ठति 'भीषणं' भापनं कर्तव्यम्, तथाऽप्यभिभवतो 'निरुम्भणं' यस्य या लब्धिस्तेन तया निवारणं कर्तव्यम् ।।
मू. (२११) सपायच्छित्तं निग्गथिं निग्गंधे गिण्हमाणे वा र नातिक्कमइ ।। वृ-अस्य सम्बन्धमाह[भा.६२७९] आहगरणम्मि कयम्मिं, खामिय समुपद्विताए पच्छित्तं।
तप्पढमताए भएणं, होति किलंता व वहमाणी॥ वृ. अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितायाः प्रायश्चित्तं दीयते, ततः साधिकरणसूत्रानन्तरं प्रायश्चित्तसूत्रमुक्तम् ॥ अस्य व्याख्या-प्राग्वत् ।। सा सप्रायश्चित्ता 'तप्रथमतायां' प्रथमतः प्रायश्चित्ते दीयमाने 'भयेन' 'कथमहमेतत् प्रायश्चित्तं वक्ष्यामि ?' इत्येवंरूपेण विषन्ना भवेत्, यदि वा प्रायश्चित्तं वहन्ती तपसा क्लान्ता भवेत्।। तत्रेयं यतना[भा.६२८०) पायच्छित्ते दिने, भीताए विसज्जणं किलंताए।
अनुसहि वहंतीए, भएण खित्ताइतेइच्छं ।। वृ-प्रायश्चित्ते दत्ते यदि बिभेति ततस्तस्या भीतायाः क्लान्तायाश्च विसर्जनम्, प्रायश्चित्तं मुत्कलं क्रियत इत्यर्थः । अथ वहन्ती क्लाम्यति ततस्तस्या वहन्त्या अनुशिष्टिर्दीयते, यथा-मा भैषीः, बहु गतम्, स्तोकं तिष्ठति, यदिवा वयंसाहाय्यं करिष्यामइति ।अथवमनुशिष्यमाणाऽपि भयेन क्षिप्तचित्ता भवति ततस्तस्याः 'चैकित्स्य चिकित्सायाः कर्म कर्तव्यम् ॥ मू. (२१२) भत्त-पानपडियाइक्खियंनिग्गंथि निग्गंधे गिण्हमाणे वा २ नातिकमइ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org