Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1421
________________ बृहत्कल्प - छेदसूत्रम् - ३-६/२०४ “गिण्हमाणे व” त्ति बाह्वादावङ्गे गृह्णन् वा, "अवलंबमाणे व 'त्ति 'अवलम्बमानो वा' बाह्लादौ गृहीत्वा धारयन्; अथवा 'गृह्णन्' सर्वाङ्गीणां धारयन्, 'अवलम्बमानः' देशतः करेण गृह्णन्, साहयन्नित्यर्थः । नातिक्रामति स्वाचारमाज्ञां वा इति प्रथमसूत्रम् ॥ द्वितीयसूत्रमप्येवमेव । नवरम्-सेको नाम पङ्के पनके वा सजले यत्र निमज्जयते तत्र वा, पङ्क:कर्दमः तत्र वा, पनको नाम-आगन्तुकः प्रतनुद्रवरूपः कर्दम एव तत्र वा, उदकं प्रतीतं तत्र वा, "ओकसमाणि व"त्ति ' अपकसन्तीं वा' पङ्क-पनकयोः परिहसन्तीं "ओवुज्झमाणि व" त्ति 'अपोह्यमानां वा' सेकेन उदकेन वा नीयमानां गृह्णन् वा अवलम्बमानो वा नातिक्रामति ॥ तृतीयसूत्रे निर्ग्रन्थीमेव नावमारोहन्तीं वा अवरोहन्तीं वा गृह्णानो वा अवलम्बमानो वा नातिक्रामति इति सूत्रत्रयार्थ ॥ सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे ३७० [ भा. ६१८३] तिविहं च होति दुग्गं, रुक्खे सावय मनुस्सदुग्गं च । निक्कारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा ।। वृ-त्रिविधं च भवति दुर्गम्, तद्यथा-वृक्षदुर्गं श्वापददुर्गं मनुष्यदुर्गं च । यद् वृक्षैरतीव गहनतया 'दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम् । यत्र व्याघ्र-सिंहादीनां भयं तत् श्वापददुर्गम् । यत्र म्लेच्छ-बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते व तदा चतुर्गुरु, आज्ञादयश्च दोषाः ॥ मिच्छत्ते सतिकरणं, विराधना फास भावसंबंधो । पडिगमणादी दोसा, भुत्ता ऽभुत्ते व नेयव्वा ॥ [ भा. ६१८४ ] वृ-निर्ग्रन्थीं गृह्णन्तं तं दृष्ट्वा कोऽपि मिध्यात्वं गच्छेत्-अहो ! मायाविनोऽमी, अन्यद् वदन्ति अन्यच कुर्वन्ति । स्मृतिकरणं वा भुक्तभोगिनो भवति, अभुक्तभोगिनस्तु कुतूहलम् । ततश्च संयमविराधना | स्पर्शतश्च भावसम्बन्धो भवति । ततः प्रतिगमनादयो दोषा भुक्तानामभुक्तानां वा साधु-साध्वीनां ज्ञातव्याः ॥ अथ विषमपदं व्याख्याति [ भा. ६१८५] तिविहं च होति विसमं, भूमिं सावय मनुस्सविसमं च । तम्मि वि सो चेव गमो नावोदग सेय जतणाए । वृ-त्रिविधं च भवति विषमम्-भूमिविषमं श्वापदविषमं मनुष्यविषमं च । भूमिविषमं नामगर्तापाषाणाद्याकुलो भूभागः, श्वापद - मनुष्यविषमे तु श्वापद - मनुष्यदुर्गवद् मन्तव्ये । अत्र भूमविषमेणाधिकारः । पर्वतपदं तु प्रतीत्वाद् न व्याख्यातम् । 'तस्मिन्नपि' विषमे पर्वते वा निर्ग्रन्थीं गृह्णतश्चतुर्गुरुकप्रायश्चित्तादिरूपः स एव गमो भवति यो दुर्गे भणितः । तथा 'नावुदके सेकादी च ' वक्ष्यमाणस्वरूपे निर्ग्रन्थीं गृह्णतो निष्कारणे त एव दोषाः । “जयणाए "त्ति कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा । यतना चाग्रतो वक्ष्यते ॥ अथ प्रस्खलन प्रपतनपदे व्याचष्टे [भा. ६१८६ ] भूमीए असंपत्तं, पत्तं वा हत्थ-जानुगादीहिं । पक्खुलणं नायव्वं, पवडण भूमीय गत्तेहिं ॥ - भूमावसम्प्राप्तं हस्तजानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत् प्रपतनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500