________________
बृहत्कल्प - छेदसूत्रम् - ३-६/२०४
“गिण्हमाणे व” त्ति बाह्वादावङ्गे गृह्णन् वा, "अवलंबमाणे व 'त्ति 'अवलम्बमानो वा' बाह्लादौ गृहीत्वा धारयन्; अथवा 'गृह्णन्' सर्वाङ्गीणां धारयन्, 'अवलम्बमानः' देशतः करेण गृह्णन्, साहयन्नित्यर्थः । नातिक्रामति स्वाचारमाज्ञां वा इति प्रथमसूत्रम् ॥
द्वितीयसूत्रमप्येवमेव । नवरम्-सेको नाम पङ्के पनके वा सजले यत्र निमज्जयते तत्र वा, पङ्क:कर्दमः तत्र वा, पनको नाम-आगन्तुकः प्रतनुद्रवरूपः कर्दम एव तत्र वा, उदकं प्रतीतं तत्र वा, "ओकसमाणि व"त्ति ' अपकसन्तीं वा' पङ्क-पनकयोः परिहसन्तीं "ओवुज्झमाणि व" त्ति 'अपोह्यमानां वा' सेकेन उदकेन वा नीयमानां गृह्णन् वा अवलम्बमानो वा नातिक्रामति ॥ तृतीयसूत्रे निर्ग्रन्थीमेव नावमारोहन्तीं वा अवरोहन्तीं वा गृह्णानो वा अवलम्बमानो वा नातिक्रामति इति सूत्रत्रयार्थ ॥ सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे
३७०
[ भा. ६१८३] तिविहं च होति दुग्गं, रुक्खे सावय मनुस्सदुग्गं च । निक्कारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा ।।
वृ-त्रिविधं च भवति दुर्गम्, तद्यथा-वृक्षदुर्गं श्वापददुर्गं मनुष्यदुर्गं च । यद् वृक्षैरतीव गहनतया 'दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम् । यत्र व्याघ्र-सिंहादीनां भयं तत् श्वापददुर्गम् । यत्र म्लेच्छ-बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते व तदा चतुर्गुरु, आज्ञादयश्च दोषाः ॥ मिच्छत्ते सतिकरणं, विराधना फास भावसंबंधो । पडिगमणादी दोसा, भुत्ता ऽभुत्ते व नेयव्वा ॥
[ भा. ६१८४ ]
वृ-निर्ग्रन्थीं गृह्णन्तं तं दृष्ट्वा कोऽपि मिध्यात्वं गच्छेत्-अहो ! मायाविनोऽमी, अन्यद् वदन्ति अन्यच कुर्वन्ति । स्मृतिकरणं वा भुक्तभोगिनो भवति, अभुक्तभोगिनस्तु कुतूहलम् । ततश्च संयमविराधना | स्पर्शतश्च भावसम्बन्धो भवति । ततः प्रतिगमनादयो दोषा भुक्तानामभुक्तानां वा साधु-साध्वीनां ज्ञातव्याः ॥ अथ विषमपदं व्याख्याति
[ भा. ६१८५] तिविहं च होति विसमं, भूमिं सावय मनुस्सविसमं च । तम्मि वि सो चेव गमो नावोदग सेय जतणाए ।
वृ-त्रिविधं च भवति विषमम्-भूमिविषमं श्वापदविषमं मनुष्यविषमं च । भूमिविषमं नामगर्तापाषाणाद्याकुलो भूभागः, श्वापद - मनुष्यविषमे तु श्वापद - मनुष्यदुर्गवद् मन्तव्ये । अत्र भूमविषमेणाधिकारः । पर्वतपदं तु प्रतीत्वाद् न व्याख्यातम् । 'तस्मिन्नपि' विषमे पर्वते वा निर्ग्रन्थीं गृह्णतश्चतुर्गुरुकप्रायश्चित्तादिरूपः स एव गमो भवति यो दुर्गे भणितः । तथा 'नावुदके सेकादी च ' वक्ष्यमाणस्वरूपे निर्ग्रन्थीं गृह्णतो निष्कारणे त एव दोषाः । “जयणाए "त्ति कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा । यतना चाग्रतो वक्ष्यते ॥
अथ प्रस्खलन प्रपतनपदे व्याचष्टे
[भा. ६१८६ ]
भूमीए असंपत्तं, पत्तं वा हत्थ-जानुगादीहिं । पक्खुलणं नायव्वं, पवडण भूमीय गत्तेहिं ॥
- भूमावसम्प्राप्तं हस्तजानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत् प्रपतनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org