SearchBrowseAboutContactDonate
Page Preview
Page 1420
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं-२०१, [भा. ६१७९] ३६९ कारयेत् । एषा स्वपक्षे यतना भणिता ।अथैषस्वपक्षोनप्राप्यते ततः "परपक्खे"त्यादि पूर्वार्द्धम्'परपक्षे' गृहस्था-ऽन्यतीर्थिकरूपे प्रथमं पुरुषैः, ततः 'गेहिनीभिः' स्त्रभिरपि कारयेत्, तत्राप्यशौचवादिभि कुशलैश्च कारापणयम्।अत एवाह-अशौचवादि-कुशलानां 'प्रतिपक्षाः' ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम् । अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत्, तत्रापिप्रथमंमातृभगिन्यादिभि लब्धाभि, तदभावेऽसम्बन्धिनीभिरि स्थविरा-मध्यमातरुणीभिर्यथाक्रमं कारयेत् ।। कथं पुनस्तया कण्टक उद्धरणीयः? इत्याह[भा.६१८०] सल्लुद्धर नक्खेणव, अच्छिव वत्थंतरं व इत्थीसु। भूमी-कट्ठ-तलोरुसु, काऊण सुसंवुडा दो वि ।। वृ-शल्योद्धरणेन नखेन वापादमस्पृशन्ती कण्टकमुद्धरति अथैवंन शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा ताले पा ऊरौ वा कृत्वा उद्धरेत् । 'द्वावपि च' संयती-संयतौ सुसंवृतावुपविशतः । एषः 'स्त्रीषु' कण्टकमुद्धरतीषु विधिरवगन्तव्यः॥ [भा.६१८१] एमेव यअच्छिम्मि, चंपादिद्रुतो नवरि नाणत्तं । निग्गंथीण तहेव य, नवरं तु असंवुडा काई॥ वृ एवमेव अक्षिसूत्रेऽपि सर्वमपि चक्तव्यम् । 'नवरं' नानात्वं चम्पादृष्टान्तोऽत्र भवति । यथा किल चम्पायांसुभद्रया तस्य साधोश्चक्षुषि पतितंतृणमपनीतं तथाऽन्यस्यापि साधोश्चक्षुषि प्रविष्टस्य तृमादेः कारणे निग्रंथ्याऽपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्ग्रन्थीनामपि सूत्रद्वयं तथैव वक्तव्यम् । नवरम्-काचिदसंवृता भवति ततः प्रतिगमनादयः पूर्वोक्ता दोषा भवेयुः । द्वितीयपदे निर्ग्रन्थस्तासांम प्रागुक्तविधिना कण्टकादिकमुद्धरेत् ॥ मू. (२०२) निग्गथे निग्गथिं दुग्गसि वाविसमंसि वापव्वयंसिवा पक्खुलमाणिवा पवडमाणि वागिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ।। मू. (२०३) निग्गंथे निग्गंधि सेयंसि वा पंकसि वा पनगसि वा उदगंसि वा ओकसमाणिं वा ओवुज्झमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ । मू. (२०४] निग्गंथे निग्गंथि नावंआरुभमाणिवाओरुभमाणिं वागिण्हमाणेवाअवलंबमाणे वा नातिकमइ॥ दृ-अस्य सूत्रत्रयस्य सम्बन्धमाह[भा.६१८२] सो पुन दुग्गे लगेज कंटओ लोयणम्मि वा कणुगं । इति दुग्गसुत्तजोगो, थला जलं चेयरे दुविहे ।। घृ-यः पूर्वसूत्रे पादप्रविष्टः कम्टको लोचने वा कणुकं प्रविष्टमुक्तं स कण्टकस्तच्च कणुकं दुर्गे गच्छतः प्रायो लगेत्, अतो दुर्गसूत्रमारभ्यते । 'इति' एष दुर्गसूत्रस्य योगः-सम्बन्धः । दुर्गं चस्थलं ततः स्थलाजलं भवतीति कृत्वा दुर्गसूत्रानन्तरम् इतरस्मिन्' जलप्रतिबद्धे द्विविधे' पङ्कविषये नौविषये च सूत्रे आरम्भः क्रियते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थो निर्ग्रन्थीं दुर्गे वा विषमे वा पर्वते वा “पक्खुलमाणिव"त्ति प्रकर्षेण स्खलद्गत्या गच्छन्तीम्, भूमावसम्प्राप्तां वा पतन्तीम्, पतितुकामामित्यर्थः । “पवडमाणिं व"त्ति कर्षेण-भूमौ सर्वैरपि गात्रैः पतन्तीम् । 20[24 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy