SearchBrowseAboutContactDonate
Page Preview
Page 1422
Loading...
Download File
Download File
Page Text
________________ ३७१ उद्देशकः ६, मूलं-२०४, [भा. ६१८७] [भा.६१८७] अहवा विदुग्ग विसमे, थद्धं भीतं व गीत थेरोतु। सिचयंतरेतरं वा, गिण्हंतो होति निद्दोसो।। वृ-'अथवा' इति प्रकारान्तरद्योतकः । उक्तास्तावद् निर्ग्रन्थीं गृह्णतो दोषाः, परं द्वितीयपदे दुर्गे विषमे वा तां स्तब्धां भीतां वा गीतार्थ स्थविरः सिचयेन-वस्त्रणान्तिताम् इतरां वा गृह्णन् निर्दोषो भवति ।। व्याख्यातं प्रथमसूत्रम् । सम्प्रति द्वितीयसूत्रं व्याख्याति[भा.६१८८] पंको खलु चिक्खल्लो, आगंतूपयणुओ दुओ पणओ। सो पुन सजलो सेओ, सीतिजति जत्थ दुविहे वी॥ वृ-पङ्कः खलु चिक्खल्ल उच्यते ।आगन्तुकः प्रतनुको द्रुतश्च पनकः। यत्र पुनः द्विविधेऽपि' पड़े पनके वा “सीइजति" निमज्जते स पुनः सजलः सेक उच्यते ।। [भा.६१८९] पंक-पनएसु नियमा, ओगसणं वुब्भणं सिया सेए। थिमियम्मि निमज्जणता, सजले सेए सिया दो वि।। वृ-पङ्क-पनकयोर्नियमाद् 'अपकसन' इसनं भवति।सेकेतु"वुझणं" 'अपोहन' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमञ्जनं भवेत् । सजले तु सेके द्वे अपि' अपवहन-निमज्जने स्याताम् ॥ अथ तृतीयं नौसूत्रं व्याख्याति[भा.६१९०] ओयारण उत्तारण, अत्थुरण ववुग्गहे य सतिकारो। छेदो व दुवेगयरे, अतपिल्लण भाव मिच्छत्तं॥ वृ-कारणे निर्ग्रन्थीं नावम् 'अवतारयन्' आरोपयन् वा यद्यास्तरणं वपुहं वा करोति तदा स्मृतिकारो भुक्तभोगिनोस्तयोर्भवति । छेदो वा नखादिभिर्द्वयोरेकतरस्य भवेत् । अतिप्रेरणेच 'भावः' मैथुनाभिलाष उत्पद्येत । मिथ्यात्वं वा तद् दृष्ट्वा कश्चिद् गच्छेत्।। एते नावुदके निर्ग्रन्थीं गृह्णतो दोषा उक्ताः । अथ लेपोपरि सन्तारयतो दोषानाह[भा.६१९१] अंतोजले वि एवं, गुज्झंगप्फास इच्छऽनिच्छंते । मुछेज्जव आयत्ता, जा होउ करेतु वा हावे॥ कृ'अन्तर्जलेऽपि जलाभ्यन्तरेऽपिगच्छन्तीं गृह्णतएवमेवदोषामन्तव्याः।तथा गुहागस्पर्श मोहउदियात्, उदितेचमोहेयदिइच्छतिनेच्छतिवाततउभयथाऽपिदोषाः यद्वा सउदीर्णमोहस्तां जलमध्ये मुञ्चेत्, आयत्ता यस्माद्भवंतु करोतु वा 'हावान् मुखविकारानिति । कारणेतुनावुदके लेपोपरि वा अवतारणं उत्तारणं वा कुर्वन् यतनया गृह्णीयाद् अवलम्बेत वा ।। अथ ग्रहणा-ऽवलम्बपदे व्याख्याति[भा.६१९२] सव्वंगियं तु गहणं, करेहि अवलंबणेगदेसम्मि। जह सुत्तं तासुकयं, तहेव वतिणो वि वतिणीए। घृ-ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते । अवलम्बनं तु तद् उच्यते यद् एकस्मिन् देशेबाह्यादौ ग्रहणं क्रियते । तदेवं यथा तासु निर्ग्रन्थीषु 'सूत्रं' सूत्रत्रयं कृतम् । किमुक्तं भवति?यथा निर्ग्रन्थो निर्ग्रन्थ्याः कारणे ग्रहणमवलम्बनं वा कुर्वन् नाऽऽज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितम्; तथैवार्थत इदं द्रष्टव्यम्-'व्रतिनोऽपि' साधोरपि दुर्गादौ पङ्कादौ नावुदकादौ वा प्रपततो व्रतिन्या कारणे ग्रहणमवलम्बनं वा कर्तव्यम् ॥ कया पुनर्यतनया? इति चेद् अत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy