SearchBrowseAboutContactDonate
Page Preview
Page 1423
Loading...
Download File
Download File
Page Text
________________ ३७२ . बृहत्कल्प-छेदसूत्रम् -३-६/२०४ [भा.६१९३] जुगलं गिलाणगंवा, असहुं अन्नेण वा वि अतरंतं । गोवालकंचुगादी, सारक्खण नालबद्धादी। वृ-'युगलंनाम' बालो वृद्धश्चतता, अपरंवाग्लानम्अत एव असहिष्णुदुर्गादिषुगन्तुमशक्नुवन्तम्, 'अन्येनवा ग्लानत्ववर्जेन कारणेन 'अतरन्तम् अशक्तम्, गोपालकञ्चकादिपरिधानपुरस्सरं नालबद्धा संयती, आदिग्रहणेनानालबद्धाऽपि संरक्षति, गृह्णाति अवलम्बते वा इत्यर्थः।। मू. (२०५)खित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.६१९४] ओवुझंती व भया, संफासा रागतो व खिप्पेज्जा । संबंधत्थविहिन्नू, वदंति संबंधमेयं तु॥ वृ-पानीयेनापोह्यमाना वा भयात् क्षिप्येत, क्षिप्तचित्ता भवेदित्यर्थः । यद्वा संस्पर्शतो यो राग उत्पद्यते तस्माद्वा तत्र साधावन्यत्र गते सति क्षिप्तचित्ता भवेत् । अतः क्षिप्तचित्तासूत्रमारभ्यते। एवंसम्बन्धार्थविधज्ञाः सूरयोऽत्रसूत्रे एनं सम्बन्धंवदन्ति॥अनेनसम्बन्धेनायातस्यास्या व्याख्या"खित्तचित्तं' ति क्षिप्तं-ष्टं राग-भया-ऽपमानैश्चित्तं यस्याः सा क्षिप्तचित्ता, तां निर्ग्रन्थीं निर्ग्रन्थो गृह्णानो वाऽवलम्बमानो वा नातिक्रामति आज्ञामिति सूत्रार्थः॥ अथैनं भाष्यकारो विस्तरेण प्ररूपयितुमाह[भा.६१९५] रागेण वा भएण व, अहवा अवमानिया नरिंदैन । एतेहि खित्तचित्ता, वणिताति परूविता लोए।। वृ-रागेण यदि वा भयेनाथवा 'नरेन्द्रेण' प्रजापतिना, उपलक्षणमेतत्, सामान्येन वा प्रभुणा 'अपमानिताः' अपमानं ग्राहिताः, एतैः खलु कारणैः क्षिप्तचित्ताभवन्ति।तेच लोके उदाहरणत्वेन परूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्ता यथा-वणिग्भार्या भरि मृतं श्रुत्वा क्षिप्तचित्ता जाता ।। भयेनापमाने च क्षिप्तचित्तत्वे उदाहरणान्याह[भा.६१९६] भयओ सोमिलबहुओ, सहसोत्थरिया य संजुगादीसु। नरवतिणा व पतीण व, विमाणिता लोगी खेत्ता। वृ-'भयतः' भयेन क्षिप्तचित्तोयथा गजसुकुमालमारको जनार्दनभयेन सोमिलनाना 'बटुकः' ब्राह्मणः । अथवा 'संयुगादिषु' संयुगं-सङ्ग्रामस्तत्र, आदिशब्दात् परबलसमापतनादिपरिग्रहः, तैः, गाथायां सप्तमी तृतयार्थे, 'सहसा' अतर्कितम् 'अस्तृताः' समन्ततः परिगृहीता मनुष्या भयेन क्षिप्तचित्ता भळनअथइ । एवं भयेन क्षिप्तचित्तत्वे उदाहरणमुक्तम् । सम्प्रत्यपमानत आहनरपतिना समस्तद्रव्यापहरणतः काचिद्विमानिता पत्यावा काचिन्महेलाऽपमानिता क्षिप्तचित्ता भवेत् । एवमादिका लौकिकी क्षिप्तचित्ता मन्तव्या ॥ सम्प्रति लोकोत्तरिकी तामेवाह[भा.६१९७] रागम्मि रायखुड्डी, जड्डाति तिरिक्ख चरिय वातम्मि। रागेण जहा खेत्ता, तमहं वोच्छं समासेणं॥ वृ-'रागे' सप्तमी तृतीयार्थे रागेण क्षिप्तचित्ता यथा वक्ष्यमाणा राजक्षुल्लिका । भयेन यथा 'जड्डादीन्' हस्तिप्रभृतीन् तिरश्चो दृष्ट्वा । अपमानतो यथा चरिकया कयाचिद् वादे पराजिता सती काचिनिन्थी क्षिप्तचित्ता जायते । तत्र रागेण यथा राजक्षुल्लिका क्षिप्तचित्ताऽभवत् तदहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy