________________
उद्देशकः ६, मूलं-२०५, [भा.६१९७]
३७३
वक्ष्ये समासेन ॥ [भा.६१९८] जियसत्तू य नरवती, पव्वज्जा सिक्खणा विदेसम्मी।
काऊण पोतणम्मि, सव्वायं निबुतो भगवं॥ वृ-जितशत्रु म नरपति । तस्य प्रव्रज्याऽभवत्, धर्मं तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यांस प्रतिपत्रवानित्यर्थः । प्रव्रज्यानन्तरंच तस्य 'शिक्षणा' ग्रहणशिक्षा आसेवनाशिक्षाच प्रवृत्ता। कालान्तरेचस विदेशं गतः । पोतनपुरेच परतीर्थिभिसह वाद उपस्थितः । ततस्तैः सह शोभनो वादः सद्वादस्तं दत्त्वा महतीं जिनशासनप्रभावनां कृत्वा स भगवान् 'निर्वृतः' मुक्तिपदवीमधिरूढः॥ [मा.६१९९] एक्का य तस्स भगिनी, रजसिरि पयहिऊण पव्वइया ।
भातुयअनुराएणं, खेत्ता जाता इमा तु विही । वृ- एका च 'तस्य' जितशत्रो राज्ञो भगिनी भ्रातुरनुरागेण राज्यश्रियं प्रहाय जितशत्रुप्रव्रज्याप्रतिपत्त्यनन्तरं कियताऽपि कालेन प्रव्रजिता । सा च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रातुरनुरागेण 'क्षिप्ता' अपहतचित्ताजाता तत्रच 'अयम्' अनुशिष्टिरूपस्तस्याः प्रगुणीकरणे विधि ॥ तमेवाह[भा.६२००] तेलोक्कदेवमहिता, तित्थगरा नीरता गता सिद्धिं ।
थेरा विगता केई, चरण-गुणपभावगा धीरा ।। वृ-तस्या भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूताया आश्वासनामियं देशना कर्तव्या, यथामरणपर्यवसानोजीवलोकः । तथाहि येतीर्थकराभगवन्तः त्रैलोक्यदेवैः-त्रिभुवननिवासिभिर्भवनपत्यादिभि महितास्तेऽपि 'नीरजसः' विगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिम् । तथा स्थविरा अपि केचिन्महीयांसो गौतमस्वामिप्रभृतयः 'चरण गुणप्रभावकाः' चरण-चारित्रं गुणःज्ञत्रानं ताभ्यां जिशासनस्य प्रभावकाः 'धीराः' महास्ता देव-दानवैरप्यभोक्ष्याः सिद्धिं गताः । तयदिभगवतामपि तीर्थकृतांमहतामपिचमहर्षीणामीशी गतिस्ततः का कथाशेषजन्तूनाम्? तस्मादेताशीं संसारस्थितमनुचिन्त्य न शोकः कर्तव्य इति ॥ तथा[भा.६२०१] बंभी य सुंदरी या, अन्ना वि य जाउ जोगजेट्ठाओ।
ताओ वि अकालगया, किं पुन सेसाउ अज्जाओ।। वृ-सुगमा॥अन्यच्च[भा.६२०२] नहु होति सोतियव्यो, जो कालगतो दढो चरितम्मि।
सो होति सोतियल्वो, जो संजमदुब्बलो विहरे।। वृ-“न हु" नैव स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः । स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् ।।कतम्? इत्याह[भा.६२०३] जो जह व तह व लद्धं, भुंजति आहार-उवधिमादीयं ।
समणगुणमुक्कजोगी, संसारपवडतो होति ॥ वृ-यो नाम यथा वा तथा वा, दोषदुष्टकतया निर्दोषतया वा इत्यर्थः, लब्धमाहारोपध्यादिकं । 'भुङ्क्ते' उपभोग-परिभोगविषयीकरोति स श्रमणानां गुणाः-मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः-परित्यक्तास्तद्रहिता ये योगा:-मनो-वाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः ते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org