________________
३७४
बृहत्कल्प-छेदसूत्रम् -३-६/२०५
यस्य सन्ति स श्रमणगुणमुक्तयोगी संसारप्रवर्धको भवति । ततो यः संयमदुर्बलो विहृतवान् स एव शोच्यः, भवदीयस्तु मात्रादि कालगतो ध्ढश्चारित्रे ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः ।। सम्प्रति "जड्डादितिरिक्ख" इत्यस्य व्याख्यानार्थमाह[भा.६२०४] जड्डादी तेरिच्छे, सत्ये अगनीय थणिय विजूय।
ओमे पडिभेसणता, चरियं पुत्वं परूवेउं ।। वृ-जड:-हस्ती, आदिशब्दात् सिंहादिपरिग्रहः, तान् तिरश्चो दृष्ट्वा । किमुक्तं भवति? - गजं वा मदोन्मत्तं सिंहं वागुञ्जन्तं व्याघ्रं वा तीक्ष्णनखर-विकरालमुखं दृष्ट्वा काऽपि निर्ग्रन्थी भयतः क्षिप्तचित्ता भवति।काऽपिपुनः 'शस्त्राणि' खड्गादीन्यायुधानि दृष्ट्वा, इयमत्र भावना-केनापि परिहासेनोद्गीर्ण खङ्गं कुन्तं क्षुरिकादिक वादृष्टवा काऽपि ‘हा ! मामेष मारयति' इति सहसा क्षिप्तचित्ता भवति । एवम् अग्नौ' प्रदीपनके लग्ने 'स्तनिते वा मेघगर्जिते श्रुते विद्युतंवा दृष्ट्वा भयतः क्षिपतचित्ता भवेत् । एवंविधायां भयेन क्षिप्तचितायां को विधि ? इत्याह- 'अवमा' तस्य अपिलघुतरंक्षुल्लिका सा वक्ष्यमाणनीत्यातस्यसिंहादेःप्रतिभेषणांकरोति,तत इतराभयं मुञ्चतीति। यातुवादे पराजिताऽपमानतःक्षिप्तचित्तीभूतातस्याः प्रगणीकरणार्थयताचरिकया सापराजिता तां पूर्व प्ररूप्य' प्रज्ञाप्य तदनन्तरं तया स्वमुखोच्चरितेन वचसा क्षिप्तचित्ततोत्तारियतव्या ।।
अथापमनातः क्षिप्तचित्ततां भावयति[भा.६२०५] अवहीरिया व गुरुणा, पवत्तिनीए व कम्मि विपमादे।
वातम्मि वि चरियाए, परातियाएइमा जयणा ॥ वृ-'गुरुणा' आचार्येणावधीरिता, अथवा प्रवर्तिन्या कस्मिंश्चित् प्रमादे वर्तमाना सती गाढं शिक्षिता भवेत्ततोऽपमानेन क्षिप्तचित्ता जायेत यदिवा चरिकया वादे पराजिता इत्यपमानतः क्षिप्तचित्ता स्यात् । तस्यांच भयेन क्षिप्तचित्तायामियं यतना।। [भा.६२०६] कन्नम्मि एस सीहो, गहितो अह धारिओ य सो हत्थी।
खुड्डुलतरिया तुझं, ते विय गमिया पुरा पाला ।। वृ-इह "पदैकदेशेपदसमुदायोपचारात्" “पाला" इत्युक्तेहस्तिपालाःसिंहपाला वा द्रष्टव्याः। तेऽपि 'पुरा' पूर्वं 'गमिताः' प्रतिबोधिताः कर्तव्याः, यथा-अस्माकमेका क्षुलिका युष्मदीयं सिहं हस्तिनं वा दृष्ट्वा क्षोभमुपागता, ततः सायथा क्षोभं मुञ्चति तथा कर्तव्यम् । एवं तेषुप्रतिबोधितेषु सा क्षिप्तचित्तीभूता तेषामन्तिके नीयते, नीत्वा च तासांमध्ये या तस्या अपि क्षुल्लिकाया लघुतरी तया स सिंहः कर्णे धार्यते, हस्ती वा तया धार्यते । ततः सा क्षिप्तचित्ता प्रोच्यते-त्वत्तोऽपि या 'क्षुल्लकतरा' अतिसयेन लघुस्तया एष सिंहः कर्णे घृतः, अथवा हस्ती अनया घाटितः, त्वं तु बिभेषि, किं त्वमेतस्या अपिभीरुर्जाता?.धाष्टर्यमवलम्ब्यतामिति॥ [भा.६२०७] सत्थऽग्गी थंभेतुं, पणोल्लणं नस्सते य सो हत्थी।
थेरी चम्म विकहण, अलायचक्कं तु दोसुंतु॥ वृ-यदि शस्त्र यदि वाऽग्नि दृष्टवा क्षिप्ता भवेत् ततः शस्त्रमग्निं च विद्यया स्तम्भित्वा तस्य पादाभ्यां प्रनोदनं कर्तव्यम्, भणितव्यं च तां प्रति-एषोऽस्माभिरग्नि शस्त्र च पादाभ्यां प्रणुनः, त्वं तु ततोऽपि बिभेषीति । यदि वा पानीयेनार्दीकृतहस्तादिभि सोऽग्नि स्पृश्यते, भण्यते च - एतस्मादपि तव किं भयम् ? । तथा यतो हस्तिनस्तस्या भयमभूत् स हस्ती स्वयं पराङ्मुखो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org