Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1428
________________ ३७७ उद्देशकः ६, मूलं-२०५, [भा. ६२१६] मधुरं च तस्यै दातव्यम्, शय्या च करीषमयी कर्तव्या, सा हि सोष्णा भवति, उष्णे च वातश्लेष्मापहरः, यथा च वातो न लभ्यते तथा कर्तव्यम् । तथा किमयं दैविकः' देवेनभूतादिना कृत उपद्रवः ? उत धातुक्षोभः ? इति ज्ञातुं देवताराधनाय 'उत्सर्ग' कायोत्सर्ग क्रियते । तस्मिंश्च क्रियमाणे यद् आकम्पितया देवतया कथितं तदनुसारेण ततः क्रिया कर्तव्या। यदि दैविक इति कथितं तदा प्राशुकैषणीयेन तस्या उपचारः, शेषसाध्वीनां तपोवृद्धि, तदुपशमनाय च मन्त्रादिस्मरणमिति । अथ वातादिना धातुक्षोभ इति कथितं तदा स्निग्धमधुराधुपचार इति ।। सम्प्रति “रक्खंताण य फिडिए" त्यादि व्याख्यानयति[भा.६२१७] अगडे पलाय मग्गण, अन्नगणो वा वि जो न सारखे। गुरुगा जं वा जत्तो, तेसिंच निवेयणं काउं॥ वृ-अगडे इति सप्तमीपञ्चम्यर्थे, ततोऽयर्थ–'अवटात् कूपाद्, उपलक्षणमेतद्, अपवरकाद्वा यदि पलायते कथमपि ततस्तस्याः 'मार्गणम्' अन्वेषणं कर्तव्यम् । तथायेतत्राऽन्यत्र वाऽऽसन्ने दूरे वाऽन्यगणा विद्यन्ते तेषां च निवेदनाकरणम, निवेदनं कर्तव्यमिति भावः। यथा-अस्मदीया एका साध्वी क्षिप्तचित्ता नष्टा वर्तते । ततस्तैरपि सा गवेषीया, दृष्टा च सा सङ्ग्रहणीया । यदि पुनर्न गवेषयन्ति नापि संरक्षन्ति स्वगणवर्तिन्या अन्यगणवर्तिन्या वा तदा तेषां प्रायश्चित्तं चत्वारः 'गुरुकाः' गुरुमासाः । यच्च करिष्यति षड्जीवनिकायविराधनादिकं यच्च प्राप्स्यति मरणादिकं तन्निमित्तं च तेषां प्रायश्चित्तमिति ॥ [भा.६२१८] छम्मासे पडियरिउं, अनिच्छमाणेसु भुजयरओ वा। कुल-गण-संघसमाए, पुव्वगमेणं निवेदेति ।। वृ.पूर्वोक्तप्रकारेण तावत् प्रतिचरणीया यावत् षण्मासा भवन्ति । ततो यदि प्रगुणा जायते तर्हि सुन्दरम् ।अथन प्रगुणीभूता ततः 'भूयस्तरकमपि पुनस्तरामपितस्याः प्रतिचरणं विधेयम्। अथ तेसाधवः परिश्रान्ता भयस्तरकं प्रतिचरणंनेच्छन्ति, ततस्तेष्वनिच्छत्सकुल-गण-सङ्घसमवायं कृत्वा पूर्वगमेन' ग्लानद्वारोक्तप्रकारेण तस्मै निवेदनीयम्, निवेदितेच ते कुलादयो यथाक्रमंतां प्रतिचरन्ति ।। अथ सा राजादीनां सज्ञातका भवेत् तदा इयं यतना[भा.६२१९] रन्नो निवेइयम्मि, तेसिं वयणे गवेसणा होति। ओसह वेज्जा संबंधुवस्सए तीसु वी जयणा ॥ घृ-यदिराज्ञोऽन्येषां वासा पुत्र्यादिका भवेत्ततो राज्ञः,उपलक्षणमेतद्, अन्येषांवा स्वजनानां निवेदनं क्रियते, यथा-युष्मदीयैषा पुत्र्यादिका क्षिप्तचित्ता जाता इति । एवं निवेदिते यदिब्रुवते राजादयः, यथा-मम पुत्र्यादीनां क्रिया स्वयमेव क्रियमाणा वर्तते तत इहैवतामप्यानयत इति । ततः सा तेषां वचनेन तत्र नीयते, नीतायाश्च तत्र तस्या गवेषणा भवति । अयमत्र भावार्थ:साधवोऽपि तत्र गत्वा औषध-भेषजानि प्रयच्छन्ति प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः 'सम्बन्धिन' स्वजना वदेयुः-वयमौषधानि वैद्यं वा सम्प्रयच्छामः, परमस्माकमासन्ने उपाश्रये स्थित्वा यूयं प्रतिचरथ । तत्र यदि शोभनो भावस्तदा एवं क्रियते । अथ गृहस्थीकरणाय तेषां भावस्तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते । तत्र च 'तिसृष्वपि' आहारोपधि-शय्यासु यतना कर्तव्या । एष द्वारगाथास पार्थः ।। साम्प्रतमेनामेव विवरीषुः प्रथमतः “रत्रो निवेइयम्मी" इत्येतद् व्याख्यानयति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500